________________
(न)तदाचिच्छक्तिरेव न स्यात् घटवत् । नहि जडस्व: रूपायां बुद्धौ विषयाऽध्यवसायः व्योम्नः सर्ववादिमिनित्यत्वमंगीक्रियते । अयं च शब्दतन्मात्रात् । न च परिणामिकारणं स्वकार्यस्य गुणो भवितुमहतीति शब्दगुणमाकाशमित्यादि वाङ्मानं । वागादीनां चे. न्द्रियत्वमेव न युज्यते, इतरासाध्यकार्यकारित्वाभावात् । न बन्धमोक्षौ पुरुषस्येति,, तन्न, अनादिभवपरम्परानुबद्धया प्रकृत्या सह यः पुरुषस्य विवेको ग्रहणलक्षणोऽविष्वग्भावः स एव बन्धः, य एव बद्धः स. एव मुच्यते इति पुरुषबन्धमोक्षौ ।। १५ ॥
इदानीं ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहु ये व बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुषते तन्मतस्य विचार्यमाणत्वे विशरारुतामाहुः - न तुल्यकालः फलहेतुभावो,
हेत विलीने न फलस्य भावः ॥ - न संविदद्वैतपथेऽर्थसंवि
हिलूनशी% सुगतेन्द्रजालम् ॥ १६ ॥ व्याख्या-नेति, कल कार्य हेतुः कारणं । तयो भर्भावः स्वरूपंकार्यकारगभावः । स न तुल्यकालः समानकालो युज्यते इत्यर्थः । हेतौ कारणे प्रमाणलक्षणे