________________
(२२) सामान्यविशेषैकान्तरूपेण प्रकारेण वाचकवाच्यक्लतौ वाच्यवाचकभाबकल्पनायामतावकानामत्वदी. यानामन्ययूथ्यानां प्रतिभाप्रमादः प्रज्ञास्खलितमित्यभरार्थः ॥ १४ ॥
इदानीं सांख्याभिमतप्रकृतिपुरुषादितत्यानां विरोधावरुद्धत्वं ख्यापयन् तबालिशताविलसितानामपरिमितत्वं दर्शयति
चिदर्थशन्या च जडा च बुद्धिः, . शब्दादितन्मात्रजमम्बरादि ॥ न बन्धमोक्षा पुरुषस्य चेति,
कियज्जडैन ग्रथितं विरोधि ॥ १५ ॥ व्याख्या-चिदिति, चित् चैतन्यशक्तिरात्मस्वरूपभूता, अर्थशून्या-विषयपरिच्छेदविरहिता, १ बुद्धिमहत्तत्वाख्या जडा-अनवबोधस्वरूपा, २ अम्बरादि-व्योमप्रभृति भूतपञ्चकं शब्दादितन्मात्रज, ३ पुरुषस्य च प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्ध. मोक्षौ, किन्तु प्रकृतिरेवेति चतुर्थो इति शब्दः प्रका राथः । एवं प्रकारमन्यदपि विरुद्ध जडै-मूर्खस्तत्त्वावबोधविधुरधीभिः कापिलैः कियन्न ग्रथितं- स्वशास्त्रेपनिबद्धं । अपि त्वनंतचिशक्तिरर्थशन्या चेति,