________________
(२४) ने विनष्टे फलस्य प्रमाणकार्यस्य न भावः न सत्ता निर्मूलत्वात् सम्यगवैपरीत्येन विद्यते अवगम्यते वस्तुस्वरूपमनयेति संवित् ज्ञान।तस्या अद्वैतं । द्वयोर्भावो द्विता । द्वितैव तंप्रज्ञादित्वात् स्वाथकेऽणि । न द्वैतम. द्वैतं संविदद्वैतं ज्ञानं तात्विकं । तस्य पन्था मार्गःसंविद द्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्षे इति यावत्।किमित्याह तत्रार्थसविन घटते एवं स्थिते सति किमित्याह-विलूनेति,, मुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातं मतिव्यामोहविधातृत्वात् । सुगतेन्द्रजालं तत्सर्व विळून विशीणे पूर्व विलूनं पश्चात् शीण ॥ १६॥
अथ तस्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहोरापलापिनः शून्यवादिनः सौगतजातीयास्तस्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकाराऽनङ्गीकारलक्षणपक्षयेऽपि तदभिमतार्थाऽसिद्धिप्रदर्शनपूर्वकमुपहसन्नाहविना प्रमाणं परवन्न शन्यः
स्वपक्षसिद्धेः पदमश्नुवीत ॥ कृप्येत्कृतान्तः स्पृशते प्रमाण
महो सुदृष्टं त्वदसूयिदृष्टम् ॥ १७ ॥ व्याख्या--विनेति,, शून्यः शून्यवादी प्रमाणे प्रत्यक्षादिकं विना स्वपक्षसिद्धेः स्वाभ्युपगतशून्यवानिष्प