________________
विगाहतां किन्तु यथार्थवाद
मेकं परीक्षाविधिदुर्विदग्धः ॥३॥ व्याख्या-अयमिति, हे नाथ अयं मल्लक्षणो जनस्तव गुणान्तरेभ्यो यथार्थवादव्यतिरिक्तेभ्योऽनन्य. साधारणशारीरलक्षणादिभ्यः स्पृहयालुरेव । किमर्थ स्तवाय स्तुतिकरणायेति । तादयें चतुर्थी । किन्त्वि. त्यभ्युपगमविशेषद्योतने निपातः । एकमेकमेव य. थार्थवादं यथावस्थितवस्तुतत्त्वप्रख्यापनाख्यं त्वदीयं गुणमयं जनो विगाहताम् । स्तुतिक्रियया समन्ताद् व्याप्नोतु यतोऽयं जनः परीक्षाविधिदुर्विदग्धः पण्डितं मन्ये इति यावत् ॥ २॥
___ अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेनाप्रतिपन्नास्तानपि तत्वविचारणां प्रति शिक्षयम्नाह
गुणेष्वसूयां दधतः परेऽमी, · माशिभियन्नाम भवन्तमीशम् ॥ तथाऽपि सम्मील्य विलोचनानि,
विचारयन्तां नयवर्त्म सत्यम् ॥३॥ व्याख्या-गुणेविति, अमी इति । अदसस्तु वि.. प्रष्टे इति वचनात् तत्त्वातत्वविमर्शवाह्यतया दू.