________________
त एवात्मीयस्वरूपादेवानुवृत्ति व्यावृत्तिभाजः । एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः, व्यति. पृत्तिावृत्तिर्विजातीयेभ्यः सर्वथा व्यवच्छेदस्ते उभे अपि संवालते भजन्ते आश्रयन्तीति अनुवृत्तिव्या. त्तिभाजः सामान्यविशेषोभयात्मका इत्यर्थः। अस्यैवार्थस्य व्यतिरेकमाह । न भावान्तरनेयरूपा इति । नेति निषेधे । भावान्तराभ्यां पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां भावव्यतिरिक्तसामान्यविशेषाभ्यां नेयं प्रतीतिविषयं प्रापणीयं रूपं यथासंख्यमनुवृत्तिव्यावृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः स्वभावो ह्ययं सर्वभावानां यदनुवृत्तिव्यावृत्तिप्रत्ययौ स्वत एवं जनयन्ति । तथा हि-घट एव तावत् पृथुबुध्नोदराद्याकारवान् प्रतीतिविषयीभवन् सन् अन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया घटैकशब्दवाच्यतया सजातीयेभ्यश्च प्रत्यायन् सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजा. तीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावतयन्विशेषव्यपदेशमश्नुते इति । तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनवबुद्धयमाना अकुशला अतत्त्वा. भिनिविष्टदृष्टयस्तीर्थान्तरीयाः स्खलन्ति न्यायमार्माद् भ्रश्यन्ति निरुत्तरीभवन्ति इत्यर्थः । किं कुर्वाणा: अयमनुवृत्तिव्यावृत्तिलक्षणं प्रत्ययवयं वदन्तः। कस्मा