________________
(१८) पक्षसाधनमिति व्युत्पत्तेः। षस्तुतस्तु अपरामृष्टतत्वातत्त्वविचारं मौख्यं वितण्डा । तत्र यत्पाण्डित्यं निपुणता तया कण्डूलमिव कण्डूलं मुख यस्य स तस्मिन् ॥१०॥
अधुना मीमांसकभेदाभिमतं वेदविहितहिंसायो धर्महेतु. स्वमुपपत्तिपुरःसरं निराकुर्वन्नाहन धर्महेतुर्विहितापि हिंसा,
नोत्सृष्टमन्यार्थमपोद्यते च ॥ स्वपुत्रघातान्नृपतित्वलिप्सा,
स ब्रह्मचारि स्फुरितं परेषाम् ॥११॥ व्याख्या-नेति विहितापि वेदप्रतिपादितापि हिंसा प्राणिपाणव्यप( रोपण)रूपा न धर्महेतुः म धमौनुबन्धनिबन्धनं । अत्र स्ववाक्यविरोधः। हिंसा चेत् धर्महेतुः कथं, धर्महेतुश्चेत् हिंसा कथमिति । नोत्सष्टमित्यन्यार्थमिति मध्यवत्तिपदं डमरुकमणिन्यायेनो. भयत्रापि सम्बन्धनीयम अन्यायमुत्सृष्टम् अन्यस्मै कायोय प्रयुक्तं । उत्सगंवाक्यमन्यार्थप्रयुक्तेन वाक्येन नापोद्यते नापवादगोचरी क्रियते । यमेवार्थमाश्रित्य शास्त्रेपृत्सर्गः प्रवर्तते तमेवार्थमाश्रित्यापवादोऽपि प्रवत्तते । तयोनिम्नोनतादिव्यवहारवत्परस्परसापेक्षत्वे. नैकार्थसाधनविषयत्वात् । स्वपुत्रधातात निजसुतनिपा