________________
मात्मकम् एवकारः प्रकारान्तरव्यवच्छेदार्थः। अत एवाह." अतोऽन्यथा" उक्तप्रकारवैपरीत्येन सत्त्वं वस्तु तस्वमसूपपादम् । सुखेनोपपाद्यते इति सूपपादम् । न तथा असूपपादम् । दुर्घटमित्यर्थः । ते तव प्रमाणान्यपि न्यायोपपनसाधनवाक्यान्यपि। कुवादिनः कुत्सितवादिन एकांशग्राहकनयाऽनुयायिनोऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गास्तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः । यथा सिंहस्य नादमात्रमप्याकण्यं कुरङ्गास्त्रासमासूत्र. यन्ति तथा भवत्प्रणीतप्रमाणवाक्यान्यपि श्रुत्वा कुवादिननासमश्नुवते ॥ २२ ॥
अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलित. मुक्तम् । तदेव सप्तभङ्गीप्ररूपणद्वारेण प्रपश्चयन भगवतो निरतिशय वचनातिशयं च स्तुवन्नाहअपर्ययं वस्तु समस्यमान
मद्रव्यमेतच्च विविच्यमानम् ॥ आदेशभेदोदितसप्तभङ्ग
मदीहशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥ व्याख्या-अपर्ययमिति । समस्यमानं संक्षेपेणोच्यमानं वस्त्वपर्ययमविवक्षितपर्यायम् । वसन्ति गु