________________
(९) अथवा सर्व गच्छति जानातीति सर्वगः सर्वज्ञः सर्वेगत्यर्थाः ज्ञानार्था इति वचनात् । सर्वज्ञत्वाभावे हि यथो. चितोपादानकारणाद्यनभिज्ञत्वादनुरूपकार्योत्पत्तिन स्या छ । तथा स स्ववशः स्वतन्त्रः। सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात । पारतन्त्र्ये तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघातादनीश्व रत्वापत्तिः। तथा स नित्यः । अपच्युतानुत्पन्नस्थिरैकरूपः । तस्य ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वमाप्तिः । अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्ती कृतक इत्युच्यते । यश्चापरस्तकर्ता कल्प्यने स नित्यो ऽनित्यो वा स्यात् नित्यश्चेदधिकृतेश्वरेण किमपराड । अनित्यश्चेत्तस्याप्युत्पादकान्तरेण भाव्यं । तस्यापि नित्यानित्यकल्पनायां अनवस्थादौस्थ्यमिति । तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तति पराभ्युपगममुपदश्र्योत्तरार्दैन तस्य दुष्टत्वमाचष्टे । इमाः एता अनन्तरोक्ताः कुहेाकविडम्बनाः कुत्सिताहेवाका आग्रह विशेषा कुहे वाकाः कदाग्रहा इत्य. र्थः । ता एव विडम्बना विचारचातुरीबाद्यत्वेन ति. रस्काररूपत्वादिगोपकप्रकाराः स्युभवेयुस्तेषां प्रामाणिकापसदानां येषां हे स्वामित् त्वं नानुशासकोन शि. क्षादाता । अयमाशयः यद्यपि भगवानविशेषेण स