________________
(३८) षगमिति । जात्यपेक्षमेकवचनं । प्रागुक्तदोषद्वय जातीया अन्येऽपि दोषाः यथा न प्रादुष्यन्ति तथा त्वं जीवान न्त्यमुपदिष्टवानित्यर्थः । आख्यः इति आपूर्वस्य ख्यातेरङि सिद्धिः। पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम् । यथा सात्मिका विद्रमशिलादिरूपा पृ. थिवी, छेदे समानधातूत्थानादर्भाकुरवत् । भोममम्भोऽपि सात्मक क्षतभूसजातीयस्य स्वभावस्य स. म्भवात् शालूरवत् । आन्तरिक्षमपि सात्मकं, अभ्रा. दिविकारे स्वतः सम्भूय पातात मत्स्पादिवत् । ते जोऽपि सात्मकमाहारोपादानेन वृद्धयादिविकारोपलम्भात् पुरुषागवत् । वायुरपि सात्मकः अपरप्रेरितत्वे तिर्यग्गतिमत्वाद् गोवत् । वनस्पतिरपि सात्मकः छेदादिभिम्लान्यादिदर्शनात् पुरुषाङ्गवत् । केषांचित स्वापाङ्गनोपश्लेषादिविकाराच । अपकर्शवतश्चैतन्याहा सर्वेषां सात्मकत्वसिद्धिराप्तवचनाच । प्रसेषु च कृमिपिपीलिकाभ्रमरमनुष्यादिषु न केषांचित सात्म कत्वे विगानमिति । काव्यार्थ ॥ २९ ॥
अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्याऽन्योन्यानुगत सर्वनयमया मात्सर्याऽभावमाविर्भावयति ।
अन्योऽन्यपक्षप्रतिपक्षभावान्,