________________
( ४१ )
द्विश्वम् । उपचाराज्जगद्वर्त्ती जनः । हतपरै: ( हता अधमा ये परे तीर्थान्तरीया हतपरे तैः ) मायाकारैरिवैन्द्रजालिकैरिव ( शाम्बरीयप्रयोगनिपुणैरिवेति यावत् ) अन्धतमसे निविडान्धकारे हा इति खेदे बिनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । कथंभूतेऽन्धतमसे, तत्त्वाऽतस्वव्यतिकरकराले तवं
तवं च ततच्वे । तयोर्व्यतिकरो व्यतिसंकीर्णता स्वभावविनिमयस्तस्वातत्वव्यतिकरः । तेन कराले भयङ्करे । यत्रान्धतमसे तत्वेतत्वाभिनिवेशः, अतश्वे च तवाभिनिवेश इत्येवंरूपो व्यतिकरः सज्जायत इत्यर्थः । तज्जगदुडमोहमहान्धकारोपप्लत्वात् कटुंनियतं निश्चितं त्वमेव । नान्यः शक्तः समर्थः । किमर्थमित्थमेकस्यैव भगवतः सामर्थ्यमुपवयते ! इति विशेषणद्वारेण कारणमाह-अविसंवादिवचनः, न विसंवदतीत्येवं शीलम विसंवादि । तथाभूतं वचनमुपदेशो यस्याऽसावविसंवादिवचनः,, । अभ्यभिचारिवागित्यर्थः । तीर्थान्तरीयाप्ता हि न प्रकृतपरोक्षात्रयविशुद्धवादिन इति ते महामोहान्धतमसे एव जगत्पातयितुं समर्थाः, न पुनरुदुर्तुम् । अतः कारणात् । कुमतध्वान्तार्णवान्तः पतितभुवमाभ्युद्धारणाऽसाधारण सामर्थ्य लक्षणात् । हे श्रात
+