________________
५ इत्येतत्रितयं न चकान्ति ज्ञानविषयतया न प्रति भासते। पुनराह-इहेदमित्यस्ति मतिश्च वृत्तावितिइहेदमिति इहेदमिति आश्रयायिभावहेतुक इहप्रत्ययो वृत्तावप्यस्ति समवायसम्बन्धेऽपि विद्यते। च शब्दोऽपि शब्दार्थः तस्य च व्यवहितसम्बन्धस्तथैव व्याख्यातं न गौण इति । योऽयं भेदः स नास्ति गौ. पलक्षणाभावात् । तल्लक्षणं तु'अव्यभिचारी मुख्योऽविकलोऽसाधारणो अन्तरंगश्च । विपरीतो गौणोऽर्थः सप्ति मुख्ये धीः कथं गौणे ॥१॥
इति तस्माद्धमधर्मिणोः सम्बन्धने मुख्यः समवा. यः। अपि च लोकबाध इति । अपि चेति दूषणाभ्यु. च्चये । लोकः प्रामाणिकलोका सामान्यलोकश्च तेन बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहारसाधनात् ॥
अथ सत्ताभिधानं पदार्थान्तरमात्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणं आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिमज्ञानावजीकृ. तवतः परानुपहसन्नाह - सतामपि स्यात्कचिदेव सत्ता,
चैतन्यमौपाधिकमास्मनोऽन्यत् ॥ न संविदानन्दमयी च मुक्तिः,
सुसूत्रमासूत्रितमत्वदीगैः ॥८॥