Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 41
________________ इदानीं सनीपसमुद्रमांत्रो लोक इति वावदूकानां तन्मात्र लोके परिमितानामेव सत्स्वाना सम्भवात् परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रीणत जीवाऽनन्त्यवादं निदोषतयाऽभिष्टुवन्नाहमुक्तोऽपि वाऽभ्येतु भवं भवो वा, भवस्थशन्योऽस्तु मितारमवादे ॥ षड्जीवकायं त्वमनन्तसंख्य माख्यस्तथा नाथ? यथा न दोषः ॥२९॥ व्याख्या-मुक्त इति., मितात्मवादे संख्यातानामात्मनामभ्युपगमे दूषणद्वयमुपतिष्ठते । तत्क्रमेण दशयति । मुक्तो निति प्राप्तः सोऽपि भवं संसारमभ्येतु अभ्यागच्छतु । इत्येको दोषः । भवो वा भवः संसारः । स वा भवस्थशून्यः। संसारिजीवैविरहितो. ऽस्तु भवत्विति द्वितीयो दोषः । एवं विभङ्गज्ञानिशिघराजषिमतानुसारिणो दूषयित्वोत्तरार्द्धन भगवदुप. ज्ञमपरिमितात्मवादं निर्दोषतया स्तौति । षड्जीवेत्यादि । त्वं तु हे नाथ अनन्तसंख्यमनन्ताख्यसंख्याविशेषयुक्तं षड्जीवनिकायं । पृथिव्यप्तेजोवायु बनस्पतित्रसलक्षणम् । तथा तेन प्रकारेण आख्या, मदिया प्ररूपितवान्, यथा येन प्रकारेण न दोषः, न दू.

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46