Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
चतुर्थी विधा । हे विपश्चितां नाथ संख्यावतां मुख्य ! इयमनन्तरोक्ता निपीततत्वसुधोद्गतोद्गारपरम्परा तवेति प्रकरणाद् गम्यते । तत्वं स्वरूपं परिच्छेदस्तदेव जरामरणापहारित्वात्सुधा पीयूषं तत्वसुधा नितरां पीता आस्वादिता तस्या उद्गता प्रादुर्भूता उद्गारपरंपरा उद्गारश्रेणिरित्यर्थः ॥ २५ ॥ सप्तभङ्गी यथा स्यादस्ति १ स्यानास्ति २ स्यादस्ति स्यान्नास्ति ३ स्यादवक्तव्यम ४ स्यादस्ति स्यादवक्तव्यम् ५ स्यान्नास्ति स्यादवक्तव्यम् ६ स्यादस्ति स्यानास्ति स्यादवक्तव्यम् इति सप्तमम् ॥ २५ ॥
इदानीं निन्याऽनित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया पैरायमाणयोरयत्नसिद्धप्रतिपक्षप्रतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाहय एव दोषाः किल नित्यवादे,
बिनाशवादेऽपि समास्त एव ॥ परस्परध्वंसिषु कण्टकेषु,
जयत्यधृष्यं । नशासनं ते ॥ २६ ॥ व्याख्या-य इति, किलेति निश्चये । य एव नित्यवादे दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः क्रमयोगपद्याभ्यामर्थक्रियाऽनुपपत्त्यादयस्त एवं विनाशवा

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46