Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 36
________________ हेतुमाह-उपाधयोऽवच्छेदका अंशप्रकारास्तेषां भेदो नानात्वं तेनोपहितमर्पितम् । असत्वस्य विशेषणमिदम् । उपाधिभेदोपवादिनस्तेषां सत्वादिधर्माणां य एकान्तस्तेन हता इव हताः पतन्ति स्खलन्ति ॥ २४ ॥ अथानेकान्तवादस्य सर्वद्रव्यपर्यायव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विद्याभिधानद्वारेण भगवतस्तत्वामृतरसा स्वादसौहित्यमुपवर्णयन्नाहस्यान्नाशि नित्यं सदश विरूपं, वाच्यं न वाच्यं सदसत्तदेव ॥ विपश्चितां नाथ निपीततत्व.. सुधोगतोद्गारपरम्परेयम् ॥ २५ ॥ व्याख्या-स्यादित्यव्ययमनेकान्तद्योतकम् । तदष्टास्वपि योज्यम्। स्यात्कथंचिन्नाशि अनित्यशीलम् । स्यानित्यमविनाशधर्मीत्यर्थः एतावता नित्यानित्यल. क्षणमेकं विधानम्। स्यात्सदृशं सामान्यरूपम्। स्यादिरूपं विविधरूपम् विसदृशरूपम् । अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः । स्याद्वाच्यं वक्तव्यं । स्यानवाच्यमवक्तव्यम् इत्यर्थः । एतेनाभिलाप्याऽनभिलाप्यस्वरूपरतृतीयो भेदः। स्यात्सद् विद्यमानमस्तिरूपमित्यर्थः । स्यादसत्तद्विलक्षणमिति । अनेन सदसदाख्या

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46