Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
तनेन नृपतित्व लिप्सा राज्यप्राप्तिमनोरथसहश । यथा कश्चिदविपश्चित पुरुषः परुषाशयतया निजमंगज व्यापाच राज्यश्रियं प्राप्तुमीहते । न तस्य तत्प्राप्तावपि पुत्रघातपातककलंकः क्वचिदपयाति । एवं घेदविहितहिंसया देवतादिप्रीतिसिद्धावपि हिंसासमुत्थं पापं न. पराहन्यते ॥ ११॥
साम्प्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टाना. मेकात्मसमवायिज्ञानान्तरवेधज्ञानवादिनां च यौगानमतं विकुट्टयन्नाहस्वार्थावबोधक्षम एव बोधः,
प्रकाशते नार्थकथाऽन्यथा तु ॥ परे परेभ्यो भयतस्तथापि,
प्रपेदिरेऽज्ञानमनारमनिष्ठम् ॥ १२ ॥ व्याख्या-स्वार्थेति,, बोधो ज्ञानं स च स्वार्थाव. बोधक्षम एव समर्थ एव प्रतिभासते । विपर्यये दूषणमाह-नार्थकथाऽन्यथा तु । (तु शब्दोऽवधारणे भिन्नंकमश्च सचार्थकथया सह योजित एव)। अन्यथा अर्थ प्रकाशने ज्ञानस्थ स्वसंविदितत्वानभ्युपगमेऽर्थकथैब नस्यात् । अर्थकथा पदार्थसम्बन्धिनी वार्ता सदसरूपात्मकं स्वरूपमिति यावत् । तथापि ज्ञानस्य स्वविदि

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46