Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
स्वयं विवादग्रहिले वितण्डा
पाण्डित्यकण्डुलमुखे जनेऽस्मिन् ॥ मायोपदेशात्परमर्म भिन्द
नहो विरक्तो मुनिरन्यदीयः ॥ १०॥ व्याख्या-स्वयमिति,, अन्यदीयो मुनिरक्षपाद ऋषिः अहो विरक्तोऽहो वैराग्यवान् ( अहो इत्युपसंगमाश्चर्य सूचयति) ( अन्यदीय इत्यत्र ईयकारके इति दोन्तः ) किंकुर्वन्नाह-परममभिन्दन, ( जातावेक वचनप्रयोगात् )परमर्माणि व्यथयन् कस्मात् मायोपदेशाद्धेतोः । मायापरवंचनं तस्या उपदेशः छलजातिनिग्रहस्थानलक्षणपदार्थत्रयमरूपणद्वारेण शिष्येभ्यः प्रतिपादनं तस्मात् ( गुणादस्त्रियां नवेत्यनेन हेतौ तृतो. या प्रसंगे पंचमी,) कस्मिन् विषये मायां अयमुपदि. ष्टवानित्याह । अस्मिन्प्रत्यक्षोपलक्ष्यमाणे जने तत्का. तत्त्वविमर्शबहिर्मुखतया प्राकृतप्राये लोके । कथंभूते, स्वयमात्मना विवादेन अहिले ग्रहग्रहित इव तस्मिन् । विवादलक्षण हरिभद्रसूरिराह - लब्धिख्यात्यर्थिना तु स्या:स्थितेनामहात्मना । छलजानिप्रधानो यः स विवाद इति स्मृतः ॥ १ ॥ तथा वितण्डा प्रतिपक्षस्थापनाहीनं वाक्यं । वितण्ड्यने आहन्यते अनया प्रति.

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46