Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 19
________________ (१५) तथापि देहाबहिरात्मतत्त्व मतत्त्ववादोपहताः पठन्ति ॥ ९ ॥ व्याख्या-योति, यत्रैव देशे या पदार्थों दृष्टगुणो द्रष्टा प्रत्यक्षादिप्रमाणतोऽनुभूता गुणाधा यस्य स तथा स पदार्थस्तत्रैव विवक्षितदेशे एवोपपद्यत इति क्रियाध्याहारो गम्यः । पूर्वस्येवकारस्यावधारणार्थस्यात्राप्यभि सम्बन्धात्तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः, । अमुमेवाथै दृष्टान्तेन द्रढयति । कुम्भादिवत् घटादिवत् । यथा कुम्भादेयंत्रैव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तस्यास्तित्वं प्रतीयते नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते न बहिः। तस्मात्. तत्प्रमाण एवायम् इति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गंधादिगुणोपलभ्यते, तथापि तेन न व्यभिचारः । तदाश्रयाहि गन्धादिपुद्गलास्तेषां च वैश्रसिक्या प्रायोगिक्या च गत्यागतिमत्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-एतन्निष्पतिपक्ष बाधकरहितं । ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यते इत्यस्ति बाधकमिति चेत् । मैवं । स हि न खलु मन्त्रादीनां गुणः किन्तु तदधिष्ठातृदेवतानां । तासां चाकर्षणोयोच्चाटनीयादिदे

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46