Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
(१६) शगमने कौतस्तुकोऽयमुपालंभः । न जातु गुणा गुणिनमतिरिच्यते इति । अथोत्तराई व्याख्यायते । तथापीति,, तथापि एवं निःसपत्नव्यवस्थितेऽपि तत्वेऽतस्ववादोपहताः (अनाचारः इत्यत्रैव नत्रः कुत्सात्वात् कुत्सिततस्ववादेन तदभिमताप्ताभासपुरुषविर्थशेषप्रणीतेन तत्वाभासप्ररूपणेनोपहता व्यामोहिताः देहाद् बहिः शरीरव्यतिरिक्तेऽपि देशे आत्मतत्वमास्मरूपं पठन्ति । शास्त्ररूपतया प्रणयन्ते इत्यर्थः । भावार्थस्त्वयं । आत्मा सर्वगतो न भवति । सर्वत्र तद्गुणानुपलब्धेः । यो यः सर्वत्रानुपलभ्यभानगुणः स स सर्वगतो न भवति। यथा घटस्तथा चायं तस्मात्तथा। व्यतिरेके व्योमादि न चायमसिद्धो हेतुः । कायतिरिक्तदेशे तद्गुणानां बुद्धयादीनां वादिना बा प्रतिवादिना अनभ्युपगमात् । तथा च भट्टः श्रीधरः "सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वं । नान्यत्र शरीरस्योपभोगायतनत्वात् । अन्यथा :तस्य वैयादिति ॥९॥
सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरषार्थ प्रत्यसाधकतमत्वे वाच्येपपि तदन्तःपातिनां छलजाति निग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात्तदुपदेशदातुर्वैराग्यमुपहसन्नाह

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46