Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
पववस्तुरूपा, तर्हि अयं प्रपञ्चः कुतो न कुलोऽप्यासंद भवीत्यर्थः । हन्तेत्युपदर्शने आश्चर्य वा। माया च भविष्यति अर्थसहा च भविष्यति अर्थसहार्थक्रिया: समर्थपदार्थोंपदशनक्षमा । इति चेत् तत्किं भवत्परेषां माता च वन्ध्या सम्भाव्यते । किमिति संभावने अव्ययं । भवतो ये परे प्रतिपक्षास्तेषां भधदाज्ञा पृथक मृतत्वेन वादिनां माता चेत्कं वन्ध्या वन्ध्याचेत्कथं माता इति स्पष्ट एवं स्ववचनविरोधः इत्यर्थः।। १३ ॥
अथ स्वाभिमतसामन्यविशेषोभयात्मकवाच्यवाचक भावसमर्थनपुरस्सरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवा. ध्यषाचक भावनिरासद्वारेण तेषां प्रतिभावैभवाऽभाषमाहअनेकमेकात्मकमेव वाच्यं
हयात्मकं वाचकमप्यवश्यम् ॥ अतोऽन्यथा वाचकवाच्यक्लप्ता
वतावकानां प्रतिभाप्रमादः ॥ १४॥ व्याख्या-अनेकमिति,, वाच्यमभिधेयं चेतनमचे तनं वस्तुसामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनाऽने कमनेकरूपं । तथा वाचकमभिधायक शब्दरूपं सदप्यवश्यं निश्चितं यात्मकं सामान्यविशेषात्मकत्वादनेकात्मकमित्यर्थः । अत उपदर्शितप्रकारादन्यथा

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46