Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
(११)
न्निरूपणप्रायाण्येव तथा सर्वगतत्वमपि तस्य नोपपन्नं । तद्धि सर्वगः शरीरात्मना ज्ञानात्मना वा स्यात् । प्रथमपक्षे तदीयेनैव देहेन जगत्रयस्य व्याप्तत्वादितर निर्मेयपदार्थानामाश्रयानवकाशः द्वितीयपक्षे तु सिद्धसाध्यता । सर्वज्ञपक्षेऽपि दोषः तस्य सार्वज्ञयं प्रत्यक्षेण परोक्षेण वा । न तावत्प्रत्यक्षेण । तस्येन्द्रियार्थं - सन्निकर्षोत्पन्नतया अतीन्द्रियार्थग्रहणासामर्थ्यात् । नापि परोक्षेण । तद्धि अनुमानं शाब्दं वा न तावदनुमानं । तस्य लिगग्रह गलिंगिलिंग संबन्धस्मरणपूर्वकत्वात् । तन्नायं सर्वज्ञः । तथा न तस्य स्ववशत्वं स हि यदि स्वाधीनः सन् विश्व विधत्ते परमकारुणिकश्च त्वया वण्यते । तत्कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति । अतो न स्ववशः । नित्यत्वमपि तस्य नास्ति । स खलु नित्यत्वेनैकरूपः सन् त्रिभुवनसर्गस्वभावो अतत्स्वभावो वा प्रथम विधायां जगनिर्माणात्कदाचिदपि नोपरमेत । तदुपरमे तत्स्वभाव. त्वहानिः । अतत्स्वभावपक्षे न जातु जगन्ति सृजेत् तत्स्वभावायोगात गगनवत् । अतो नास्य जगत्कर्तृ - त्वं कथमपि न सिद्ध्यति इति दिक् ॥ ६ ॥
1
अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्व धर्मिणोऽत्यन्तं व्यतिरिक्तापि समवायसंबन्धेन सम्बद्धाः सन्तो धर्मधर्मिव्यपदेशमनुवते इति तन्मतं दूषयन्नाह -
.

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46