Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
(१२)
न धर्मधर्मित्वमतीव भेदे,
वृत्त्याऽस्ति चेन्न त्रितयं चकास्ति ॥ इदमित्यस्ति मतिश्च वृत्तौ,
न गौणभेदोऽपि च लोकवाधः ॥ ७ ॥ व्याख्या - नेति, धर्मधर्मिणोरतीव भेदे अतीवेत्यत्रेवशब्दो वाक्यालङ्कारे । तं च प्रायोऽतिशब्दात् किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः । ततश्च धर्मधर्मिणोरतिभेदे एकान्तभिन्नत्वे अङ्गीक्रियमाणे धर्मधर्मित्वं न स्यात् । अस्य धर्मिणः इमे धर्माः एषां च धर्माणामयमाश्रयभूतो धर्मोत्येवं सर्वप्रसिद्धो धर्मधर्मित्र्यपदेशो न प्राप्नोति । एवमुक्ते सति परः प्रत्यवतिष्ठते । वृस्यास्तीति । अयुत सिद्धानामाधार्याधारभूतानामिह - प्रत्ययहेतुः सम्बन्धः समवायः । स च समवचनात्समवाय इति, द्रव्यगुणकर्मसामान्यविशेषेषु पंचसु पदार्थेषु वर्त्तनात वृत्तिः । तया वृत्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोरितरेतर विनिलुंठितत्वेऽपि, धर्मधर्मिव्यपदेश इष्यते इति नानन्तरोक्तो दोष इति । अत्राचार्यः समाधत्ते । चेदिति यद्येवं तव मतिः सा प्रत्यक्षप्रतिक्षिप्ता । यतो न त्रितयं चकास्ति । अयं धर्मी, इमेsस्य धर्मा, अयं चैतत्सम्बन्धनिबन्धनं समवा

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46