Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 12
________________ (८) . अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभि. निवेशरूपं निरूपयन्नाह • कत्ताऽस्ति कश्चिजगतः स चैकः, स सर्वगः स स्ववशः स नित्यः॥ इमाः कुवेहाकविडम्बनाः स्यु स्तेषां न येषामनुशासकस्त्वम् ॥६॥ घ्याख्या कर्त्तति,, जगतः प्रत्यक्षादिप्रमाणोप. लक्ष्यमाणचराचररूपस्य विश्वत्रयस्य कश्चिदनिर्वचनीयस्वरूपः पुरुषविशेषः कर्ता स्रष्टाऽस्ति विद्यते । तेषां प्रमाणानि उर्वोपर्वततर्वादिकं सर्व बुद्धिमत्कत के कार्यत्यात । यद्यत्कार्य तत्तत्सर्व बुद्धिमत्कतकं यथा घटस्तथा चेदं तस्माद् व्यतिरेके व्योमादि ।यश्च बुद्धिमांस्तकर्ता स भगवानीश्वर एवेति । स चैकः च पुनरर्थे । स - पुनः पुरुषविशेष एकोऽद्वितीयः । बहूनां हि विश्वविधातृत्वस्वीकारे परस्परविमतिसंभावनाया अनि.. वार्थत्वादेकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे स. वमसमंजसमापद्यतेति । तथासर्वगः सर्वत्र गच्छतीति सर्वगः सर्वव्यापी । तस्य हि प्रतिनियतदेशवत्तित्वेऽ. नियतदेशवृत्तीनां विश्वत्रयान्तर्वतिपदार्थानां यथाव. निर्माणानुपपत्तिः । कुम्भकारादिषु तथा दर्शनात् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46