Book Title: Alankar Shekhar Author(s): Anantram Shastri Vetal Publisher: Krishnadas Haridas Gupta View full book textPage 9
________________ प्रस्तावना शा विशेषविषयविवरणरूपेण ग्रन्थसमालोचनं प्रासङ्गिकमेवेति तत्रावतीर्यते-अस्मिन्नलङ्कारशेखरे रत्नान्यष्टौ विलसन्ति। १ उपक्रमरत्नं, २ दोषरत्नं, ३ गुणरत्नम्,४ अलङ्काररत्न, ५ वर्णकरत्न, ६ कविसम्प्रदायरत्नं, ७ कविसामर्थ्यरत्नं, ८ विश्रमरत्नं चेति तेषां नामानि । आदितस्त्रिषु रत्नेषु मरीचयस्त्रयः, चतुर्थे चत्वारः, पञ्चमे त्रयः, षष्ठे चत्वारः, सप्त. मे प्रयः, अष्टमे तु द्वाविति । एतादृशः प्रकरणविभागसङ्केता ग्रन्थनामोचिताः कविना कल्पिताः सुतरां शोभन्ते । उपक्रमरत्ने प्रथमे मरीचौ-मङ्गलाचरणपूर्विकां ग्रन्थकारयितुर्वशपरम्परां निरूप्य अलङ्कारविद्यासूत्रकारस्य शौद्धोदनेरभिमतं 'रसालङ्कारभूषितं शब्दश्रव गाव्यवहितोत्तरकालावच्छिन्नसुखविशेषसाधनं वा काव्यामिति काव्यस्वरूपं प्रदर्श्य विशिष्टस्य तस्य कीर्त्यादिफलसाधनत्वप्रतिपादनमुखेन तत्र प्रवृत्त्यौपयिकानि फलानि सङ्ग्रहीतानि । किश्च प्रतिभायाः कारणत्वं व्युत्पत्तविभूषणत्वमभ्यासस्य भृशोत्पत्तिकारित्वं चाभिधाय 'काव्यसरणि परिशीलितवतां शुद्धान्तःकरणानां सततं पर्यालोचयतां करतलगतैव कविता विलसतीति तात्पर्यवतीं श्रीपादोक्तिमुद्भाव्य वृद्धसमतानीतराण्यपि कारणानि सङ्गह्य प्रकारपरिज्ञानस्यापि कारणत्वनिरूपणोपयिक भारत्याः सलक्षणं सङ्केपतश्चतुावधत्वं स्वमतेन दण्डिमतेन च प्रदर्शितं ग्रन्थकारेण । द्वितीये मरीचौ-रीतिप्रपञ्चनिरूपणं विधाय उक्तिमुद्रयोश्चातुर्विध्यमुदाहरणमुखेन प्रतिपाद्य 'एतासां प्रयोजनादिकमलङ्कारसर्वस्वे दर्शितामिति 'अलङ्कारसर्वस्वं' नाम निजनिर्मितिः सूचिता । तृतीये मरीचौ-पदवृत्तीस्त्रिविधा निर्दिश्य व्यञ्जनायाः शक्यलक्ष्यव्यङ्ग्यात्मकत्रिविधार्थवृत्तित्वस्य संसाधनेन उत्तमादित्रि विधकाव्योदाहरणप्रदशनेन च व्यञ्जनोपयोगिता साधु सिद्धान्तिता। दोषरत्ने प्रथमे मरीचौ-पूर्वप्रतिज्ञातं दोषाणां त्याज्यत्वं दण्डिमतेन प्रमाणीकृत्य दोषसामान्यलक्षणकथनपूर्वकं पददोषानष्टौ सौ. दाहरणान् प्रादर्शयद्न्थकारः। द्वितीये मरीचौ-द्वादश वाक्यदो. षानुदाहृत्य गोवर्धनसंमतं असमर्थसमासस्यापि दोषान्तरत्वमुद. भावयत् । तृतीये मरीचौ-अष्टानामर्थदोषाणामुदाहरणानि प्रदर्श्य (१) परिशीलितकाव्यवर्मनां कविसंसर्गविशुद्धचेतसाम् । परिभावयतामनुक्षणं कविता पाणितले निषीदति ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 152