Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 128
________________ अध्ययनं-४, उद्देशकः - [नि. २३२] १२५ मृद् उदकस्य स्पर्शरसगन्धादिभिः पाण्डुमुदश्च यदा कृष्णमृदा कलुषितमृदकं भवति तदाऽसौ कृष्णमृद् उदकस्य पाण्डुमृदश्च शस्त्र भवति, एवं(तत)-तु द्रव्यशस्त्रं, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, 'भाव' इति द्वारपरामर्शः, असंयमः शस्त्रं चरणस्येति गाथार्थः ।। एवं च परिणतायां पृथ्व्यामुच्चारादिकरणोऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः संभवी साधुधर्म इति। एष तावदागमः, अनुमानमप्यत्र विद्यते-सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाङकुरोत्पत्त्युपलम्भात्, देवदत्तमांसाङ्कुरवत्, एव-मागमोपपत्तिभ्यां व्यवस्थितं पृथिवीकायिकानां जीवत्वम्, उक्तं च - "आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम्। अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये॥१।। __ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः। ___वीतरागोऽनृतं वाक्यं, नब्रूयाद्धत्वसंभवात्॥२॥" इत्यलं प्रसङ्गेन। एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् । विशेषस्त्वभिधीयते-सात्मकं जलं, भूमिखातस्वाभाविकसंभवात्, दुर्दरवत्।सात्मकोऽग्निः,आहारेण वृद्धिदर्शनात्, बालकवत्।सात्मकः पवनः, अपरप्रेरिततिर्यग्निगनियमितदिग्गमनाद्, गोवत्। सचेतनस्तरवः, सर्वत्वगपहरणे मरणाद्, गर्दभवत्। वनस्पतिजीवविशेषप्रतिपादनायाह___ 'तंजहा अग्गबीया' इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रबीजा इति-अग्रं बीजं येषां ते अग्रबीजा:-कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा-उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा-इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजा:-शल्लक्यादयः, तथा बीजाद्रोहन्तीति बीजरुहाः-शाल्यादयः संमूर्च्छन्तीतिसंमूच्छिमा:-प्रसिद्धबीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधास्तृणादयः, न चैतेन संभवन्ति, दग्धभूमावपिसंभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेकभेदसंदर्शनार्थं, वनस्पतिकायिकग्रहणंसूक्ष्मबादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि स्वगताः भेदाः पृथिवीशर्करादयः तथाऽवश्यायमिहिकादयः तथा अङ्गारज्वालादयः, तथा झञ्झामण्डलिकादयो (भेदाः) सूचिता इति। 'सबीजाश्चित्तवन्त आख्याता' इति, एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजाःस्वस्वनिबन्धनाश्चित्तवन्तः-आत्मवन्त आख्याता:-कथिताः। एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत्। सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च भवत्याशङ्का-किं बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुकान्ते उत्पद्यते इति?, अस्यव्यपोहायाहनि.[२३३] बीए जोणिन्भूए जीवो वुक्कमइ सो य अन्नो वा। जोऽवि य मूले जीवो सोऽवि य पत्ते पढमयाए। वृ.बीजे योनिभूते इति, बीजं हि द्विविधं भवति-योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्यस्तयोनि च, प्ररोहसमर्थं तदसमर्थं चेत्यर्थः । तत्र योनिभूतं सचेतनमचेतनं च, अयोनिभूतं तु नियमादचेतनमिति। तत्र बीजे योनिभूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह, तत्रोत्पत्त्यसंभवाद्, अबीजत्वादित्यर्थः । योनिभूते तु-योन्यवस्थे बीजे, योनिपरिणाममत्यजतीयुक्तं भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284