Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 231
________________ २२८ दशवैकालिक - मूलसूत्रं - ९ / २ / ४३८ वृ. एतदेव विनयाविनयफलं मनुष्यानिधिकृत्याह 'तहेव'त्ति सूत्रं, ‘तथैव' तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटार्थं दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा (ता:)' कसधातव्रणाङ्कितशरीरा: 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ॥ दंडसत्थापरिज्जुन्ना, असब्भयवयणेहि अ । मू. (४३९) कलुणाविवत्रच्छंदा, सुप्पिवासाइपरिगया । वृ. तथा 'दंड' त्ति सूत्रं, दण्डा - वेत्रदण्डादयः शस्त्राणि खङ्गादीनी ताभ्यां परिजीर्णाःसमन्ततो दुर्बलभावमापादिताः तथा 'असभ्यवचनैश्च' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणा-दीना व्यापन्नच्छन्दसः - परायत्ततया अपेतस्वाभिप्रायाः, क्षुधा - बुभुक्षया पिपासया - तृषा परिगता - व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेर्दुःखिततरा विज्ञेया इति । मू. (४४० ) तहेव सुविनीअप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता इड्डि पत्ता महायसा ॥ वृ. विनयफलमाह- 'तहेव'त्ति सूत्रं, 'तथैव' विनीततिर्यञ्च इव सुविनीतात्मानो लोकेऽस्मि - नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धिं प्राप्ता महायशस इति पूर्ववदेव, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ॥ - मू. (४४१) तहेव अविनीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति दुहमेहंता, आभिओगमुवट्ठिआ ॥ वृ. (४४१ ) एतदेव विनयाविनयफलं देवानधिकृत्याह - 'तहेव'त्ति सूत्रं, 'तथैव' यथा नरनार्यः ‘अविनीतात्मानो' भवान्तरेऽकृतविनयाः 'देवा' वैमानिका ज्योतिष्का 'यक्षाश्च' व्यन्तराश्च 'गुह्यका' भवनवासितः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणपरवृद्धिदर्शनादिना, आभियोग्यमुपस्थिताः-अभियोगः आज्ञाप्रदानलक्षणोऽस्यास्तीत्यभियोगी तद्भाव आभियोग्यं कर्मकरभावमित्यर्थः उपस्थिताः प्राप्ता इति सूत्रार्थः ॥ मू. (४४२ ) तहेव सुविनीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥ वृ. विनयफलमाह-'तहेव 'त्ति सूत्रं, 'तथैवे 'ति पूर्ववत्, 'सुविनीतात्मानो' जन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणादिषु 'ऋद्धि प्राप्ता' इति देवाधिपादिप्राप्तर्द्धयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥ मू. (४४३) जे आयरिअउवज्झायाणं, सुस्सूसावयणंकरा । तेसि सिक्खा एवड्डूंति, जलसित्ता इव पायवा ॥ वृ. एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतो लोकोत्तरविनयफलमाह-'य आचार्योपाध्याययोः प्रतीतयोः 'शुश्रुषावचनकराः ' पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा' ग्रहणासेवनालक्षणा भावार्थरूपाः For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284