Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 236
________________ अध्ययनं-९, उद्देशकः-३. नि. ३२८] दर्शयति स पूज्य इति सूत्रार्थः ।। मू.(४६४) अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअंच भासं। ओहारणि अप्पिअकारिणि च, भासंन भासिज्ज सया स पुज्जो।। वृ. तथा-'अवर्णवादं च' अश्लाघावादं च ‘पराव्युखस्य' पृष्ठत इत्यर्थः 'प्रत्यक्षस्य च 'प्रत्यनीकाम्' अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा 'अवधारिणीम्' अशोभन एवायमित्यादिरूपाम् 'अप्रियकारिणींच' श्रोतुम॒तनिवेदनादिरूपां 'भाषां' वाचं 'न भाषेत सदा' यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ।। मू. (४६५) अलोलुए अकुहए अमाई, अपिसुणे आवि अदीनवित्ती। नो भावए नोऽविअ भाविअप्पा, अकोउहल्ले असया स पुज्जो ॥ वृ. तथा-'अलोलुप' आहारादिष्वलुब्धः अकुहक' इन्द्रजालादिकुहकरहितः ‘अमापी' कौटिल्यशून्यः 'अपिशुनश्चापि' नो छेदभेदकर्ता अदीनवृत्तिः' आहारद्यलोभेऽपि शुद्धवृत्तिः नो भावयेद् अकुशलभावनया परं, यथाऽमुकपुरतो भवताऽहं वर्णनीयः 'नापि च भावितात्मा' खयमन्यपुरतः स्वगुणवर्णनापर: अकौतुकश्च सदा नटनर्त्तकादिषु यः स पूज्य इति सूत्रार्थः । मू.(४६६) गुणेहि साहू अगुणेहिग्लाबूस गिण्हाहि साहु गुण मुंच साहू। विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समो स पुज्जो । वृ. किं च-'गुणैः' अनन्त रोदितैर्विनयादिभिर्युक्तः साधुर्भवति, तथा 'अगुणैः' उक्तगुणविपरीतैरसाधुः, एवं सतिगृहाण साधुगुमान् मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या 'विज्ञापयति' विविधं ज्ञापयत्यात्मानमात्मना यः तथा 'रागद्वेषयोः समः'न रागवान द्वेषवानिति स पूज्य इति सूत्रार्थः ।। मू. (४६७) तहेव डहरं च महल्लगं वा, इत्थीं पुमं पव्वइअंगिहिं वा। नो हीलए नोऽवि अखिसइज्जा, थंभं च कोहं च चए स पुज्जो ।। . वृ.किं च -'तथैवे'ति पूर्ववत्, डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वानपुंसकं वा प्रव्रजितं गृहिणं वां, वाशब्दादन्यतीथिकं वा 'न हीलयति नापि च खिसयति' तत्र सूयया असूयया वा सकृदृष्टाभिधानं हीलनं, तदेवासकृत्खिसनमिति। हीलनखिंसनयोश्च निमित्तभूतं 'स्तम्भं च'मानं च 'क्रोधं च' रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वत: कार्यात्यागदिति सूत्रार्थः ।। मू. (४६८) जे मानिआ सययं मानयंति, जत्तेण कन्नं व निवेसयंति। ते मानए मानारिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो। वृ.किं च-'ये मानिता अभ्युत्थानादिसत्कारैः ‘सततम्' अनवरतं शिष्यान् ‘मानयन्ति' श्रुतोपदेशं प्रति चोदनादिभिः, तथा 'यत्नेन कन्यामिव निवेशयन्ति' यथा मातपितरः कन्यां गुणैर्वयसा च संवद्धर्य योग्यभर्तरि स्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति । तानेवभूतान् गुरू न्मानयति योऽभ्युत्थानादिना 'मानार्हान्' मानयोग्यान् तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य इति । मू. (४६९) तेसिं गुरू णं गुणसायराणं, सुच्चाण मेहावि सुभासिआई। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284