Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 240
________________ अध्ययनं - ९, उद्देशकः - :- ४ [नि. ३२८] विउलहिअं सुहावहं पुणो, कुव्वइ अ सो पयखेममप्पणो ॥ वृ. सर्वसमाधिफलमाह-'अभिगम्य' विज्ञायासेव्य च 'चतुरः समाधीन्' अनन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन' रिति विपुलं विस्तीर्णं हितं तदात्वे आयात्यां च पथ्यं सुखमावहतिप्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं स्थानं क्षेमं - शिवम् आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः ॥ मू. (४८४ ) जाइमरणाओ मुच्चइ, इत्थंथं च चएइ सव्वसो । सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिए । वृ. एतदेव स्पष्टयति- 'जातिमरणात्' संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं चेती' दंप्रकारमापन्नमित्थमम् इत्थं स्थितमित्थंस्थं - नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च त्यजति ‘सर्वशः' सर्वैः प्रकारैरपुनर्ग्रहणतया एवं 'सिद्धो वा' कर्मक्षयात्सिद्धो भवति 'शाश्वतः', अपुनरागामी सावशेषकर्मा देवो वा 'अल्परतः ' कण्डूपरिगतकण्डूयनकल्परतरहित: 'महर्द्धिकः ' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् अध्ययनं - ९, उद्देशक : ४ समाप्त : अध्ययनं - ९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता संपादिता दशवैकालिकसूत्रे नवमं अध्ययनं सनिर्युक्तिः सटिकं समाप्तम् अध्ययनं : १० सभिक्षुः Jain Education International २३७ वृ. अधुना सभिक्ष्वास्यमारभ्यते, अस्य चायमभिसंबन्ध:, इहानन्तराध्ययन आचार:प्रणिहितो यथोचितवि - नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च तत्र सकारनिक्षेपमाह नि. [३२९] नामंठवणसयारो दव्वे भावे अ होइ नायव्वो । दव्वे पसंसमाई भावे जीवो तदुवउत्तो ॥ वृ. नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारश्च तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीवः 'तदुपयुक्तः ' सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः । प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाहनि. [३३०] निदेसपसंसार अत्थीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्थ अज्झयणे ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284