Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२६२
दशवैकालिक-मूलसूत्रं वृ.'आनन्दाश्रुपातम्' अहो आराधितमनेनेति हर्षाश्रुमोक्षणम् 'अकार्षुः कृतवन्तः ‘शय्यम्भवाः प्राग्व्यावर्णितस्वरूपाः 'तत्र' तस्मिन् कालगते 'स्थविराः' श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति, यशोभद्रस्य च-शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन् ! किमेतदकृतपूर्वमित्येवंभूता, कथनाच भगवतःसंसारस्नेहईदृशः, सुतो ममायमित्येवंरूपा, चशब्ददादनुतापश्च यशोभद्रादीनाम्-अहो गुराविव गुरुपुत्रके वर्तितव्यमितिनकृतमिदमस्माभिरिति, एवंभूतप्रतिबन्धदोषपरिहारार्थन मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च। 'विचारणा संघ' इतिशय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्र नियूढं किमत्र युक्तमिति निवेदेति विचारणा संघे-कालहासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदित्येवंभूता स्थापना चेति गाथार्थः॥
उक्तोऽनुगमः साम्प्रतं नया:, तेच नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूदैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति।स्वरूपं चैतेषामधआवश्यके सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेहप्रतन्यते। इहपुन: स्थानाशून्यार्थमेते ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदम्-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह
. "नायंमि गिण्हिअव्वे अगिहिअव्वंमिचेव अत्थम्मि।
. जइअव्वमेव इह जो उवएसो सो नओ नाम॥" 'नायंमि'त्ति ज्ञाते सम्यक्परिच्छिन्ने 'गिण्हिअव्वे'त्ति ग्रहीतव्य उपादेये 'अगिण्हिअव्वे'त्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोजीतत्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो दृष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीयेचज्ञातएव नाज्ञाते अत्थम्मि'त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्त्रक्वन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीत्वयो मिथ्यात्वादिरूपेक्षणीयो विवक्षयाअभ्युदयारिति तस्मिन्नर्थे, 'यतितव्यमेवे'तिअनुस्वारलोपाद्यतितव्यय् एवम्' अनेनप्रकारेणैहिकामुष्मिकफलप्राप्तयर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाते प्रवर्त्तमानस्य फलाविसंवादर्शनात्, तथा चान्यैरप्युक्तम्
"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता।
मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात्॥" तथाऽऽमुष्मिकफलप्राप्तयर्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव व्यस्थितः,
"पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए।
अन्नाणी किं काही, किंवा नाहीइ छेअपावगं?॥" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागम
"गीअत्थो अविहारो बिइओ गीअस्थमीसिओ भणिओ। .
एत्तो तइअविहारो नाणुण्णाओ जिणवरेहिं॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284