Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 253
________________ - - २५० दशवैकालिक-मूलसूत्रं अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, 'अनवधावितेनैव' अनुत्प्रव्रजितेनैव 'अमूनि' वक्ष्यमाणलक्षणान्यष्टादश स्थानानि 'सम्यग्' भावसारं 'सुष्टुप्रेक्षितव्यानि' सुष्ठावलोचनीयानि भवन्तीति योगः, अव-धावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति। __ तान्येव विशेष्यन्ते-'हयरश्मिगजाङ्कशपोतपताकाभूतानि' अश्वखलिनगजाङ्कुशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपिसंयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक्संप्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः 'तद्यथे'त्यादि, तद्यथेत्युपन्यासार्थः, 'हंभो दुष्षमायां दुष्प्रजीविन' इति हंभो-शिष्यामन्त्रणे दुष्ष्मायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिनइति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहुतना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथम स्थानम् १। __तथा लघव इत्वारा गृहिणां कामभोगाः' दुष्षमायामिति वर्तते, सन्तोऽपि लघवः' तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः 'इत्वरा' अल्पकाला: 'गृहिण' गृहस्थानां कामभोगा' मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् २।। . तथा 'भूयश्चस्वातिबहुला मनुष्याः'दुष्षमायामितिवर्त्तत एव, पुनश्च स्वातिबहुला' मायाप्रचुरा 'मनुष्या' इति प्राणिनो, न कदाचिद्विश्रम्झहेतवोऽभी, तद्रहितानांच कीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानं ३। तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति' 'इदं च' अनुभूयमानं मम श्रामण्यमनुपालयतो 'दु:खं' शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामणयपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानं ४। __ तथा 'ओमजनपुरस्कार'मिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेनतुन्यूनजनस्यापिस्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वावेष्टिप्रयोक्तुःखरकर्मणो नियमत एव इहैवेदमधर्मफलम् अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम्५ । एवं सर्वत्र क्रिया योजनीया, तथा 'वान्तस्य प्रत्यापानं' भुक्तोज्झितपरिभोग इत्यर्थः, अयं चश्वशृगालादिक्षुद्रसत्त्वाचरिचः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठंस्थानम्६। __ तथा अधरगतिवासोपसंपत्' अधो(धर)गतिः-नरकतिर्यग्गतिस्तस्यांवसनमघोगतिवासः, एतनिमित्तभूतं कर्म गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७। तथा 'दर्लभः खल भो! गृहिणां धर्म' इति प्रमादबहलत्वाद्दर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह-'गृहपाशमध्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284