________________
-
-
२५०
दशवैकालिक-मूलसूत्रं अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, 'अनवधावितेनैव' अनुत्प्रव्रजितेनैव 'अमूनि' वक्ष्यमाणलक्षणान्यष्टादश स्थानानि 'सम्यग्' भावसारं 'सुष्टुप्रेक्षितव्यानि' सुष्ठावलोचनीयानि भवन्तीति योगः, अव-धावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति। __ तान्येव विशेष्यन्ते-'हयरश्मिगजाङ्कशपोतपताकाभूतानि' अश्वखलिनगजाङ्कुशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपिसंयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक्संप्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः 'तद्यथे'त्यादि, तद्यथेत्युपन्यासार्थः, 'हंभो दुष्षमायां दुष्प्रजीविन' इति हंभो-शिष्यामन्त्रणे दुष्ष्मायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिनइति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहुतना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथम स्थानम् १। __तथा लघव इत्वारा गृहिणां कामभोगाः' दुष्षमायामिति वर्तते, सन्तोऽपि लघवः' तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः 'इत्वरा' अल्पकाला: 'गृहिण' गृहस्थानां कामभोगा' मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् २।। . तथा 'भूयश्चस्वातिबहुला मनुष्याः'दुष्षमायामितिवर्त्तत एव, पुनश्च स्वातिबहुला' मायाप्रचुरा 'मनुष्या' इति प्राणिनो, न कदाचिद्विश्रम्झहेतवोऽभी, तद्रहितानांच कीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानं ३।
तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति' 'इदं च' अनुभूयमानं मम श्रामण्यमनुपालयतो 'दु:खं' शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामणयपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानं ४। __ तथा 'ओमजनपुरस्कार'मिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेनतुन्यूनजनस्यापिस्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वावेष्टिप्रयोक्तुःखरकर्मणो नियमत एव इहैवेदमधर्मफलम् अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम्५ ।
एवं सर्वत्र क्रिया योजनीया, तथा 'वान्तस्य प्रत्यापानं' भुक्तोज्झितपरिभोग इत्यर्थः, अयं चश्वशृगालादिक्षुद्रसत्त्वाचरिचः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठंस्थानम्६। __ तथा अधरगतिवासोपसंपत्' अधो(धर)गतिः-नरकतिर्यग्गतिस्तस्यांवसनमघोगतिवासः, एतनिमित्तभूतं कर्म गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७। तथा 'दर्लभः खल भो! गृहिणां धर्म' इति प्रमादबहलत्वाद्दर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह-'गृहपाशमध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org