________________
२५१
चूलिका- १. मूलं ५०६ [नि. ३६८ ] वसता' मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम्, एतच्चिन्तनीयमिष्टमं स्थानं ८ ।
तथा ‘आतङ्कस्तस्य वधाय भवति' 'आतङ्कः' सद्योघाति विषूचिकादिरोगः 'तस्य' गृहिणो धर्मबन्धुरहितस्य 'वधाय' विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानं ९ । तथा‘संकल्पस्तस्य वधाय भवति' 'संकल्प' इष्टानिष्टवियोगप्रांसिजो मानस आतङ्कः, 'तस्य' गृहिणस्तथा चेष्टायो गान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं १० ।
तथा‘सोपक्लेशो गृहिवास' इति सहोपक्लेशैः सोपक्लेशो गृहिवासो- गृहाश्रमः, उपश्लेशा :कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्ण श्रमादयो धृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ ।
तथा‘निरुपक्लेशः पर्याय' इति, एभिरेवोपक्लेशै रहितः, प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः, श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ ।
तथा 'बन्धा गृहवास:' सदा तद्धेत्वनुष्ठानान् कोशकाकीटवदिति, एतच्चिन्तनीयमिति त्रयोदश स्थानं. १३। तथा ‘मोक्षः पर्यायः' अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् १४ ।
· अत एव ‘सावद्यो गृहवास' इति सावद्यः- सपाय: प्राणातिपातमृषावादादिप्रवृत्तेरेतच्चिन्तनीयमिति पञ्चदशं स्थानम् १५ । एवम्'अनवद्यः पर्याय' इति अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वाद्, एतच्चिन्तनीयमिती षोडशं स्थानं १६ ।
तथा‘बहुसाधारणा गृहिणां कामभोगा' इति बहुसाधारणाः - चौरराजकुलादिसामान्या 'गृहिणां' गृहस्थानां कामभोगाः पूर्ववदिति, एतच्चिन्तनीयमिति सप्तदशं स्थानं १७ ।
तथा 'प्रत्येकं पुण्यपाप' मिति मातापितृकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं 'प्रत्येकं प्रत्येकं' पृथक् पृथक् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थ:, एवमष्टादशं स्थानम् १८ ।
एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते - सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानम् १४, प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५, शेषाण्यभिधीयन्ते, तथा 'अनित्यं खलु' अनित्यमेव नियमत: भो इत्यामन्त्रणे 'मनुष्याणां पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६, तथा 'बहु च खलु भोः ! पापं कर्म प्रकृतम्' बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे बह्वेव पापं कर्म - चारित्रमोहनीयादि 'प्रकृतं' निर्वर्त्तितं, मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहिप्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चित् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानं १७ ।
तथा 'पापानां चे'त्यादि, 'पापानां च ' अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च 'खलु भोः ! कृतानां कर्मणां' खलुशब्दः कारितानुमतविशेषणार्थ:, भो इति शिष्यामन्त्रणे, 'कृतानां' मनोवाक्काययोगैरोधतो निर्वर्त्तितानां 'कर्मणां' ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org