________________
२५२
दशवैकालिक - मूलसूत्रं 'दुश्चरितानां' प्रमादकषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं 'दुष्पराक्रान्तानां' मिथ्यादर्शनाविरतिजदुष्पराक्रान्ताजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि वधबन्धनादीनि, तदमीषाप्नेवंभूतानां कर्मणां 'वेदयित्वा' अनुभूय, फलमिति वाक्यशेष:, किम् ? - 'मोक्षो भवति' प्रधानपुरुषार्थो भवति 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, 'तपसा व क्षययित्वा' अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानाब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपः क्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिदृहाश्रमेणेति संप्रत्यपेक्षितव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति १८ । ' भवति चात्र श्लोकः ' अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूत श्लोकोपन्यासेऽपि न विरोधः ॥
मू. (५०७ )
जया य चयई धम्मं, अणज्जो भोगकारणा ।
से तत्थ मुच्छिए बाले, आयइं नावबुज्झइ ।
वृ.यदा चैवमप्यष्टादशसु व्यावर्त्तनकारणेषु सत्स्वपि 'जहाति' त्यजति 'धर्मं' चारित्रलक्षणम् 'अनार्य' इत्यनार्य इवानार्यो- म्लेच्छचेष्टितः, किमर्थमित्याह- 'भोगकारणात्' शब्दादिभोगनिमित्तं 'स' धर्मत्यागी 'तत्र' तेषु भोगेषु 'मूच्छितो' गृद्धो 'बालः' मन्दः 'आयतिम्' आगामिकालं 'नावबुद्धयते' न सम्यगवगच्छतीति सूत्रार्थः ॥
मू. (५०८ )
जया ओहाविओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिब्भट्ठो, स पच्छा परितप्पइ ॥
वृ. एतदेव दर्शयति-यदा 'अवधावितः' अपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, ‘इन्द्रो वे’ति देवराज इव 'पतितः क्ष्मां' क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इति भावः, क्ष्मा-भूमिः।'सर्वधर्मपरिभ्रष्टः ' सर्वधर्मेभ्यः- क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः- सर्वश्च्युतः, स पतितो भूत्वा 'पश्चात् ' मनाग् मोहावसाने ‘परितप्यते ' किमिदमकार्यं मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थः ॥ मू. (५०९) जया अ वंदिमो होइ, पच्छा होइ अवंदिमो । देवया व चुआ ठाणा, स पच्छा परितप्पइ ॥
वृ. यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवत्युन्निष्क्रान्तः सन्नवन्द्यः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः ॥ मू. (५१० ) जया अ पूइमो होइ, पच्छा होइ अपूइमो । राया ज रज्जपब्भट्ठो, स पच्छा परितप्पड़ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org