SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ चूलिका- १. मूलं-५१० [नि. ३६८ ] वृ . तथा यदा च पूज्यो भवति - वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ॥ मू. (५११ ) २५३ जया अ माणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठि व्य कब्बडे छूढो, स पच्छा परितप्पइ ॥ वृ . यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना मानीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'कर्बटे' महाक्षुद्रसंनिवेशे क्षिप्तः सन् पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः ॥ मू. (५१२ ) जया अथेरओ होइ, समइकं तजुव्वणो । मच्छु व्व गलं गिलित्ता, स पच्छा परितप्पइ ॥ वृ. यदा च स्थविरो भवति स त्यक्तसंयमो वय: परिणामेन, एतद्विशेषप्रतिपादनायाहसमतिक्रान्तयौवनः, एकान्तस्थविर इति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव 'गलं' बडिशं 'गिलित्वा' अभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः॥ मू. (५१३) जया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मइ । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ | वृ.एतदेव स्पष्टयति-यदाच 'कुकुटम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते - विषयभोगान् प्रति विधातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ? - यथा हस्ती कुमुटुम्बबन्धनबद्धः परितप्यते ॥ पुत्तदारपरीकिण्णो, मोहसंताणसंतओ ॥ मू. ( ५१४ ) पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥ वृ. एतदेव स्पष्टयति- 'पुत्रदाहरपरिकीर्णो' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतानसंततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव - 'पङ्कावसन्नो नागो यथा ' कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते - हा हा किं मयेदमसजञ्जसमनुष्ठितमिति सूत्रार्थः ॥ अज्ज आहंगणी हुतो, भाविअप्पा बहुस्सओ । जइंऽहं रमंतो परिआए, सामण्णे जिनदेसिअए । भू. (५१५) वृ. कश्चित् सचेतनतर एवं च परितप्यत इत्याह- ' अद्य तावदहम् अद्य - अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम् - आचार्यो भवेयम् ' भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत ' उभयलोक हितबह्वागमयुक्तः, यदि किं स्यादित्यत आह- यद्यहम् ' अरमिष्यं' रतिमकरिष्यं 'पर्याये' प्रव्रज्यारूपे, सोऽनेकभेद इत्याह-' श्रामण्ये' श्रमणानां संबन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह- 'जिनदेशिते' निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ॥ मू. (५१६) देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो॥ व. अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह- 'देवलोकसमानस्तु' देवलोकसदृश एव 'पर्याय: ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy