________________
२५४
दशवैकालिक - मूलसूत्रं
प्रव्रज्यारूप: 'महर्षीणां' सुसाधूनां 'रतानां' सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवतियथा देवलोके देवा: प्रेक्षणकादिव्यापृता अदीनमनसास्तिष्ठन्त्येवं सुसाधवोऽपि भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । 'अरतानां च' भावतः सामाचार्यामसक्तानां च, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रसत्त्वानां 'महानरकसदृशो' रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाच्चेति सूत्रार्थः ॥
मू. (५१७) अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ तहाऽयाणं । निरओवमं जाणिअ दुक्खमुत्तमं, रमिज्ज तम्हा परिआइ पंडिए ।
वृ. एतदुपसंहारेणैव निगमयन्नाह - 'अमरोपमम्' उक्तन्यायाद्देवसदृशं 'ज्ञात्वा' विज्ञाय 'सौख्यमुत्तमं ' प्रशमसौख्यं, केषामित्याह - 'रतानां पर्याये' सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह- 'नरकोपमं' नरकतुल्यं ज्ञात्वा दुःखम् ‘उत्तमं' प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् ' रमेत' सक्तिं कुर्यात्, केत्याह-'पर्याये' उक्तस्वरूपे 'पण्डितः ' शास्त्रार्थज्ञ इति सूत्रार्थः ॥
मू. ( ५१८ ) धम्माउ भट्टं सिरिओ अवेयं, जन्नग्गिविज्झा अमिवऽ प्पतेअं । हलंत नं दुव्विहिअं कुसीला, दाढुड्डिअं धोरविसं व नागं ॥
वृ. पर्यायच्युतस्यैहिकं दोषमाह- 'धर्मात् ' श्रमणधर्माद् ' भ्रष्टं' च्युतं 'श्रियोऽपेतं' तपोलक्ष्म्या अपगतं 'यज्ञाग्निम्' अग्निष्टोमाद्यनलं विध्यातमिव यागावसानेऽल्पतेजसम्, अल्पशब्दोऽभावे, तेजः शून्यं भस्मकल्पमित्यर्थः 'हीलयन्ति' कदर्थयन्ति, पतिस्त्वमिति पंङ्क्त्यपसारणादिना, 'एनम्' उन्निष्क्रान्तं 'दुर्विहितम्' उन्निष्क्रमणादेव दुष्टानुष्ठायिनं 'कुशीला: ' तत्सङ्गोचिता लोकाः, स एव विशेष्यते-'दाढुड्ढिअं' ति प्राकृत शैल्या उद्धृतदंष्ट्रम् - उत्खातदंष्ट्रं 'धोरविष-मिव' रौद्रविषमिव 'नागं' सर्प, यज्ञाग्निसर्पोपमानं, लोकनीत्वा पधानभावादप्रधानभावख्यापनार्थमिति । मू. (५१९) इहेवऽधम्मो अयसो अकित्ती, दुन्नामधिज्जं च पिहुज्जणंमि । चुअस्स धम्माउ अहम्मसेविनो, संभिन्नवित्तस्स य हिटुओ गई ।
वृ. एवमस्य भ्रष्टशीलस्यौधत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह- 'इहैव' इहलोक एव 'अधर्म' इत्ययमधर्मः, फलेन दर्शयति-यदुत 'अयशः' अपराक्रमकृतं न्यूनत्वं तथा 'अकीर्त्तिः ' अदानपुण्यफलप्रवादरूपा तथा 'दुर्नामधेयं च' पुराण: पतित इति कुत्सितनामधेयं च भवति, केत्याह-'पृथग्जने' सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्येत्याह- 'च्युतस्य धर्माद्' उत्प्रव्रजितस्येत्यर्थः, तथा 'अधर्मसेविनः ' कलत्रादिनिमित्तं षट्कायोमर्द्दकारिणः, तथा 'संभिन्नवृत्तस्यच' अखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मकन्धाद् 'अधस्ताद्गतिः' नरकेषूपपात । मू. (५२० ) भुंजित्तु भोगाई पसज्झचेअसा, तहाविहं कट्टु असंजमं बहुं । गइं च गच्छे अनभिज्झिअं दुहं, बोही अ से नो सुलहा पुणो पुणो ॥
वृ. अस्यैव विशेषप्रत्यपायमाह - 'स' उत्प्रव्रजितो शृक्त्वा 'भोगान्' शब्दादीन् 'प्रसह्यचेतसा ' धर्मनिरपेक्षतया प्रकटेन चित्तेन' तथाविधम्' अज्ञोचितमधर्मफलं 'कृत्वा' अभिनिर्वर्त्य 'असंयमं ' कृष्याद्यारम्भरूपं ‘बहुम्' असंतोषात्प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छति 'अनभिध्याताम्'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International