________________
चूलिका- १. मूलं - ५०६ [नि. ३६५ ] सुन्दरत्वादिति गाथार्थः । दार्ष्यन्तिकयोजनामाहनि. [३६६ ]
अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिगिच्छाए । धम्मे रई अधम्मे अरई गुणकारिणी होइ ॥
२४९
वृ. 'अष्टविधकर्मरोगातुरस्य' ज्ञानावरणीयादिरोगेण भावग्लानस्य 'जीवस्य' आत्मनः ' तथा ' तेनैव प्रकारेण 'चिकित्सायां संयमरूपायां प्रकान्तायामस्नानलोचादिना पीडाभावेऽपि 'धर्मे' श्रुतादिरूपे‘रतिः' आसक्तिः 'अधर्मे' तद्विपरीते 'अरति:' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः । एतदेव स्पष्टयति
नि. [३६७ ]
सज्झायसंजमतवे वे आवच्चे अ झाणोजोगे अ । जोरमइ नो रमइ अस्संजमम्मि सो वच्चई सिद्धिं ॥
वृ. स्वाध्याये-वाचनादौ संयमे-पृथिवीकायसंयमादौ तपसि - अनशनादौ वैयावृत्त्ये च-. आचार्यादिविषये ध्यानयोगे च-धर्मध्यानादौ यो 'रमते' स्वाध्यायादिषु सक्त आस्ते, तथा 'न रमते' न सक्त आस्ते 'असंयमे' प्राणातिपातादौ स 'व्रजति सिद्धि' गच्छति मोक्षम् । इह च संयमतपोग्रहणे सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः ॥ उपसंहरन्नाहतम्हा धम्मे रइकारगाणि अरइकारगाणि उ (य) अहम्मे । ठाणाणि ताण जाणे जाई भणिआई अज्झयणे ॥
नि. [३६८ ]
वृ. तस्माद् ' धर्मे' चारित्ररूपे 'रतिकारकाणि' रतिजनकानि 'अरतिकारकाणिच' अरतिजनकानिच 'अधर्मे' असंयमे स्थानानि 'तानि' वक्ष्यमाणानि जानीयात् यानि ' भणितानि ' प्रतिपादितानि इह अध्ययने प्रक्रान्त इति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसरइत्यादि पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
मू. ( ५०६ ) इह खलु भो ! पव्वइएणं उत्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूआई इमाई अट्टारस ठाणाई सम्मं संपडिलेहिअव्वाइं भवंति-तंजहा- हंभो ! दुस्समाए दुप्पजीवी १, लहुसगा इत्तरिआ गिहीणं कामभोगा २, भुज्जो अ साइबहुला मनुस्सा ३, इमे अमे दुक्खे न चिरकालोवट्ठाई भविस्सई४, ओमजणपुरक्कि ५, वंतस्स य पडिआयणं ६, अहरगइवासोवसंपया ७, दुल्लहे खलु भो ! गिहीणं धम्मे गिहवासमज्झे वसंताणं ८, आयंके से वहाय होइ ९, संकप्पे से वहाय होइ.१०, सवोक्केसे गिहवासे मिरुवक्केसे परिआए ११, बंधे गिहवासे मुक्खे परिआए १२, सावज्जे गिहवासे अणवज्जे परिआए १३, बहुसाहारणा गिहीणं कामभोगा १४, पत्तेअं पुण्णपावं १५, अणिच्चे खलु भो ! मणुआण जीविए कुसग्गजल-बिंदुचंचले १६, बहुं न खलु भो ! पावं कम्मं पगडं १७, पावाणं च खलु भो! कडाणं कम्माणं पुव्वि दुच्चित्राणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता १८, अट्ठारसमं पयं भवइ । (भवइ अ इत्थ सिलोगो-)
Jain Education International
वृ . ' इह खलु भोः प्रव्रजितेन' इहेति जिनप्रवचने खलुशब्दोऽवधारणे स च भिन्नक्रम इति दर्शयिष्यामः, भोइत्यामन्त्रणे, प्रव्रजितेन - साधुना, किंविशिष्टेनेत्याह-'उत्पन्नदुःखेन' संजातशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन 'संयमे' व्यावर्णितस्वरूपे 'अरतिसमापन्नचित्तेन' उद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यते- 'अवधानोत्प्रेक्षिणा' अवधानम्
For Private & Personal Use Only
www.jainelibrary.org