________________
. २४८
दशवैकालिक मूलसूत्रं च्चोत्तरतन्त्रं ' श्रुतगृहीतार्थमेव' दशवैकालिकाख्यश्रुतेन गृहीतोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह-'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः ॥ द्रव्यचूडादिव्याचिख्यासयाऽऽहनि. [३६१] दवे सच्चिताई कुक्कुडचूडामणीमऊराई । खेत्तंमि लोगनिक्कुड मंदरचूडा अ कूडाई ॥
वृ. 'द्रव्य' इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताद्या' सचित्ता अचित्ता मिश्राच, यथासंख्यं दृष्टान्तमाह- कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा । ‘क्षेत्र' इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्त्तिनः, मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानां, क्षेत्रप्राधान्यता, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः ||
नि. [३६२]
अइरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि । भावे खओवसमिए इमा उ चूडा मुणे अव्वा ॥
वृ.' अतिरिक्ता' उचितकालात् समधिका 'अधिकमासका: ' प्रतीताः, अधिकाः संवत्सराश्च षष्ठ्यब्दाद्यपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा ' मन्तव्या' विज्ञेया क्षायोपशमिकत्वाच्छ्रतस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽहदव्वे दुहाउ कम्मे नोकम्मरई अ सद्ददव्वाई । भावरई तस्सेव उ उद एमेव अरईवि ।।
नि. [३६३]
वृ. द्रव्यरतिरागमनो आगमज्ञशरीरेतरातिरिक्ता द्विधा- कर्मद्रव्यरतिनकर्मद्रव्यरतिश्च तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच्च बद्धमनुदयावस्थं गृह्ये नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि, आदिशब्दात्, स्पर्शरसादिपरिग्रहः रतिजनकानि - रतिकारणानि । भावरति: 'तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थः । उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाह
नि. [३६४]
वक्कं तु पुव्वभणिअं धम्मे रइकारगाणि वक्काणि । मिमी तेन रइवक्केसा हवइ चूडा ॥
वृ. वाक्यं तु पूर्वभणितं - वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे ' रतिकारकाणि' रतिजनकानि तानि च वाक्यानि येन कारणेन 'अस्यां' चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तृणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः । इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । आहच
नि. [३६५ ] जह नाम आउरसिह सीवणछेज्जेसु कीरमाणेसु । जंतणमपत्थकुच्छाऽऽ मदोसविरई हिअकरी उ ॥
वृ. यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य ' इह ' लोके 'सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियामाणेषु सत्सु, किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः 'आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकृ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International