________________
अध्ययनं-१०, उद्देशकः - नि. ३५९]
२४७ दाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-नस्वगुणैर्गर्वमायाति यः स भिक्षुरिति। मू.(५०३) न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते।।
मयाणि सव्वाणि विवज्जइत्ता, धम्मज्झाणरए जे स भिक्खू॥ वृ.मदप्रतिषेधार्थमाह-न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न च रूपमत्तो यथाऽहं रूपवानादेयः, न लाभमत्तो यथाऽहंलाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाह-मदान् सर्वान् कुलादिविषयानपि परिवW' परित्यज्य 'धर्मध्यानरतो' यो यथागमं तत्र सक्तः स भिक्षुरिति सूत्रार्थः ॥ मू.(५०४) पवेअए अज्जपयं महामुनी, धम्मे ठिओ ठावयई परं पि।
निक्खम्म वज्जिज्ज कुसीललिंगं, न आवि हासंकुहए जे स भिक्खू । वृ.किंच-'प्रवेदयति' कथयति आर्यपदं' शुद्धधर्मपदं परोपकाराय 'महामुनिः' शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्यत आह-धर्मे स्थितः स्थापयति परमपिश्रोतारं, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति 'कुशीललिङ्गम्' आरम्भादिकुशीलचेष्टितं, तथा 'न चापि हास्यकुहको' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः ।। मू.(५०५) तं देहवासं असुइं असासयं, सया चए निच्चिहिअद्विअप्पा।
छिदितु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमंगई। ते बेमि।। वृ.भिक्षुभावफलमाह-'तं देहवास'मित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरवासमए अशुचिंशुक्रशोणितोद्भवत्वादिना अशाश्वतं प्रतिक्षणपरिणत्या सदात्यजति ममत्वानुबन्धत्यागेन, क इत्याह-'नित्यहिते' मोक्षसाधने सम्यग्दर्शनादौ 'स्थितात्मा' अत्यन्तसुस्थितः, स चैवंभूतश्छित्त्वा जातिमरणस्य' संसारस्य 'बन्धन' कारणम् ‘उपैति' सामीप्येन गच्छति 'भिक्षुः' यतिः 'अपुनरागमां' पुनर्जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगति, ब्रवीमीति पूर्व-वदिति सूत्रार्थः।। उक्तोऽनुगमो, नया: पूर्ववत्, इति व्याख्यातं सभिक्षवध्ययन्।।
अध्ययनं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिक सूत्रे दशमअध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्तिः एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता
(प्रथमा चूलिका रतिवाक्यं - वृ.अधुनौधतञ्चूडे आरभ्येते, अनयोश्चायमभिसंबन्धः-इहानन्तराध्ययने भिक्षुगणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतन्त्रवत् कर्मणश्च बलवत्त्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवच्चूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आहनि.[३६०] दव्वे खेत्ते काले भावम्मि अचूलिआय निक्खेवो।
तं पुण उत्तरतंतं सुअगहिअत्थं तु संगहणी॥ वृ. नामस्थापने क्षुण्णत्वादनादृत्याह-'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो' न्यास इति तत्पुनश्चूडाद्वयम् ‘उत्तरतंत्र' दशवैकालिकस्य आचारपञ्चचूडावत्, एत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org