________________
२४६.
दशवैकालिक-मूलसूत्र-१०/-/४९७ दण्डादिना लूषितो वा खंगादिना भक्षितो वा श्वशृगालादिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागादिना पीड्यते, तथा 'अनिदानो' भाविफलासंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः स भिक्षुरिति सूत्रार्थः॥ मू.(४९८) अभिभूअकाएण परीसहाई, समुद्धरे जाइपहाउ अप्पयं।
विइत्तु जाईमरणं महब्भयं, तवेरए सामणिए जे सभिक्ख ॥ वृ. भिक्षुस्वरूपाभिधानाधिकार एवाह-'अभिभूय' पराजित्य 'कायेन' शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानिभभवेतत्त्वतस्तदनभिभवात्, ‘परीषहान्' क्षुदादीन्, 'समुद्धरति' उत्तारयति 'जातिपथात्' संसारमार्गादात्मानं, कथमित्याह-'विदित्वा' विज्ञाय ज़ातिमरणं संसारमूलं, 'महाभयं' महाभयकारणं, 'तपसि रतः' तपसि सक्तः, किंभूत इत्याह'श्रामण्ये' श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रार्थः ।। मू.(४९९) हत्थसंजए पायसंजए, वायसंजए संजइंदिए।
_ अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खू॥ वृ.तथा हस्तसंयतः पादसंयत इति-कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, 'संयतेन्द्रियो' निवृत्तविषयप्रसरः, 'अध्यात्मरतः' प्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थंच यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः।। मू.(५००) उवहिमि अमुच्छिए अगिद्धे, अन्नायउंछ पुलनिप्पुलाए।
कयविक्कयसंनिहिओ विरए, सव्वसंगावगए अजे स भिक्खू॥ वृ.तथा-'उपधौ' वस्त्रादिलक्षणे 'अमूच्छितः' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोञ्छंचरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाकनिष्पुलाक' इति संयमासारतापादकदोषरहितः, क्रयविक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपरर्ययुषितस्थापनेभ्यो निवृत्तः, 'सर्वसङ्गापगतश्च यः' अपगतद्रव्यभावसङ्गश्च यः, स भिक्षुरिति। मू.(५०१) अलोल भिक्खू न रसेसु गिज्झे, उंछंचरे जीविअनाभिकंखे।
- इड्डिं च सकारणपूअणं च, चए ठिअप्पा अनिहे जे सभिक्खू ॥ वृ.किंच-अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुः न रसेषु गृद्धः प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्त्यं, तथा जीवितं नाभिकाङ्क्षते, असंयमजीवितं, तथा 'ऋद्धिंच' आमर्पोषध्यादिरूपां सत्कारंवस्त्रादिभिः पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, अनिभ' इत्यमायो यःस भिक्षुरिति सूत्रार्थः॥ मू.(५०२) न परं वइज्जासि अयं कुसीले, जेणं च कुप्पिज्ज न तं वइज्जा।
जाणिअ पत्तेअंपुण्णपावं, अत्ताणं न समुक्कसे जे सभिक्खू॥ . वृ. तथा न 'परं' स्वपक्षविनेयव्यतिरिक्तं वदतिअयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि, किमित्याह आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसंबन्ध्यन्यस्य भवति अग्नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org