________________
अध्ययनं - १०, उद्देशक :- [नि. ३५९ ]
२४५
होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥
वृ.' तथैवे 'ति पूर्वर्षिविधानेन 'अशनं पानं च' प्रागृक्तस्वरूपं तथा 'विविधम्' अनेकप्रकारं 'खाद्यं स्वाद्यं च' प्रागुक्तस्वरूपमेव 'लब्ध्या' प्राप्य, किमित्याह-भविष्यति'अर्थ:' प्रयोजनमनेन श्वः परश्वो वेति ‘तद्' अशनादि 'न निधत्ते' न स्थापयति स्वयं तथा 'न निधायपति' न स्थापयत्यन्यैः स्थापयन्तमन्यं नानुजानाति, य: सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः ॥
मू. ( ४९३ ) तहेव असनं पानगं वा, विविहं खाइमसाइमं लभित्ता । छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू ।।
वृ. किं च तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ध्येति पूर्ववत्, लब्ध्या किमित्याह'छन्दित्वा' निमन्त्र्य 'समानधार्मिकान्' साधून् शृंक्ते, स्वात्मतुल्यतया तद्वात्सल्यसिद्धेः, भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः स भिक्षुरिति सूत्रार्थः ॥
तथा
मू. (४९४ ) न य वुग्गहिअं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ।।
वृ. भिक्षुलक्षणाधिकार एवाह न च 'वैग्रहिकीं' कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च कुप्यति परस्य, अपितु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागादिरहित एवास्ते, तथा 'संयमे' पूर्वोक्ते 'ध्रुवं' सर्वकालं 'योगेन' कायवांत्र: कर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा 'उपशान्तः' अनाकुल: कायचापलादिरहित: 'अविहेठकः' न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति । मू. (४९५ ) जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ अ । भयभेरक्सद्दसप्पहासे, समसुहदुक्खसहे अ जे स भिक्खू ॥
वृ. किंच- यः खलु महात्मा सहते 'सम्यग्ग्रामकमण्टकान्' ग्रामा-इन्द्रियाणि तहुः स्वहेतवः कण्टकान्तानः,स्वरूपपत एवाह - आक्रोशान् प्रहरान् तर्जनाश्चेति, तत्राकोशो यकारादिभिः प्रहारा: कशादिभिः तर्जना अमृयादिभिः, तथा 'भैरवभया' अत्यन्तरौद्र भयजनकाः शब्दाः सप्रहासा यस्मिन् स्थान इति स्थान इति गम्यते तत्तथा तस्मिन् वैतालादिकृतार्त्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-य: अचिलतसामायिकभावाः सभिक्षुरिति सूत्रार्थः ॥
मू. (४९६ ) पडिमं पडिवज्जिआ मसाणे, नो भीयए भवभेरवाई दिस्स । विविहगुणतवोरए अ निच्चं, न सरीरं चाभिकंखए जे स भिक्खू ॥
वृ. एतदेव स्पष्टयति- 'प्रतिमां' मासादिरूपां 'प्रतिपद्य' विधिनाऽङ्गीकृत्य 'श्मशाने' पितवृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्टवा' रौद्रभयहेतूनुपलभ्य वैतालादिरूपशब्दादीनि 'विविधगुणतपोरश्च नित्यं' मूलगुणाद्यनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाङ्क्षते नि:स्पृहतया वार्त्तमानिकं भावि च, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥
मे (४९७) असई वोसद्वचत्तदेहे, अक्कुट्टे व हए लूसिए वा । पुढविसमे मुनी हविज्जा, अनिआणे अकोउहल्ले जे स भिक्खू ।। वृ. न सकुदसकृत्सर्वदेत्यर्थः, किमित्याह-'व्युत्सृष्टत्यक्तदेहः' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषणाकरणेन देहः शरीरं येन स तथाविधः, आकृष्टो वा यकारादिना हतो वा
-
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International