________________
२४४
दशवैकालिक-मूलसूत्र-१०/-/४८५ भिक्षुः। आह-षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहित: किमर्थं पुनरुक्त इति, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थं, ततश्च न दोष इति सूत्रार्थः । मू.(४८७) अनिलेन न वीए न वीयावए, हरियाणि न छिंदे न छिदावए।
बीआणि सया विवज्जयंतो, सच्चितं नाहारए जे स भिक्खू॥ वृ.तथा अनिलेन' अनिलहेतुना चेलकर्णादिना न बीजयत्यात्मादि स्वयं न बीजयति परैः। 'हरितानि' शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, 'बीजानि' हरितफलरूपाणि व्रीह्यादीनि 'सदा' सर्वकालं विवर्जयन् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचिदप्युपुष्टालम्बनः स भिक्षुरिति सूत्रार्थः॥ मू.(४८८) वहणं तसथावराण होइ, पुढवीतणकट्ठनिस्सिआणं।
तम्हा उद्देसिअंन भुंजे, नोऽवि पए न पयावए जे स भिक्खू॥ वृ.औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-'वधनं' हननं त्रसस्थावराणां' द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानाम्?-'पृथिवीतृणकाष्ठनिश्रितानां' तथासमारम्भात्, यस्मादेवं तस्मादौद्देशिकं कृताद्यन्यच्च सावधं न भुंक्ते, न केवलमेतत्, किंतु? नापि पचति स्वयं न पाचयति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः ।। मू.(४८९) रोइअ नायपुत्तवयणे, अत्तसमे मनिज्ज छप्पिकाए।
पंच य फासे महब्बयाई, पंचासवसंवरे जे स भिक्खू॥ वृ.किंच-'रोचयित्वा' विधिग्रहणभावनाभ्यां प्रियंकृत्वा, किं तदित्याह-'ज्ञातपुत्रवचनं' भगवन्महावीरवर्धमानवचनम् 'आत्मसमान्' आत्मतुल्यान्मन्येत 'षडपिकायान्' पृथिव्यादीन् 'पञ्चचे'ति चशब्दोऽप्यर्थः पञ्चापि 'स्पृशति' सेवते महाव्रतानि 'पञ्चाश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः। मू.(४९०) चत्तारिवमे सया कसाए, धुवजोगी हविज्ज बुद्धवयणे।
अहणे निज्जायरूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू ॥ वृ. किंच-चतुरः क्रोधादीन्वमति तत्प्रतिपक्षाभ्यासेन 'सदा सर्वकालं कषायान्, ध्रुवयोगी च-उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागमेवेति भावः, 'अधनः' चतुष्पादादिरहितः 'निर्जातरूपरजतो' निर्गतसुवर्णरूप्य इति भावः, 'गृहियोगं' मूर्च्छया गृहस्थसंबन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः॥ मू.(४९१) सम्मंद्दिट्ठी सया अमूढे, अत्थि हुनाणे तवे संजमे ।
तवसा धुणइ पुराणपावर्ग, मनवयकायसुसंवुडे जे सभिक्खू॥ वृ.तथा-'सम्यग्दृष्टिः' भावसम्यग्दर्शनी सदा अमूढः' अविप्लुतः सन्नेवं मन्यतेअस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादनरूपः, इत्थं चदृढभावस्तपसाधुनोतिपुराणपापं भावसारया प्रवृत्त्या 'मनोवाक्कायसंवृतः' तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः।।
मू.(४९२) तहेव असनं पानगंवा, विविहंखाइमसाइमंलभित्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org