________________
अध्ययनं - १०, उद्देशक:- [नि. ३५६ ]
सुवर्णं भवति तथा चित्तसमाध्यादिगुणयुक्तो भिक्षणशीलो भिक्षुर्भवतीति गाथार्थः ॥ नि. [३५७] जो भिक्खू गुणरहिओ भिक्खं गिण्हइ न होइ सो भिक्खू । वणेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि ॥
वृ.यो भिक्षुः 'गुणरहित:' चित्तसमाध्यादिशून्यः सन् भिक्षामटति न भवत्यसौ भिक्षुभिक्षाटनमात्रेणैव, अपरिशुद्धाभिक्षावृत्तित्वात्, किमिवेत्याह-वर्णेन युक्तिसुवर्णमिव, यथा तद्वर्णमात्रेण सुवर्णं न भवत्यसति 'गुणनिधौ' कषादिक इति गाथार्थः ॥ किंचउद्दिट्ठकथं भुंजइ छक्कायपमद्दओ घरं कुणइ ।
नि. [३५८]
-
२४३
पच्चक्खं च जलगए जो पियइ कह नु सो भिक्खू ? ||
वृ. उद्दिश्य कृतं मुक्तं इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः - यत्र कचन पृथिव्याद्युपमर्द्दकः, गृहं करोति संभवत्येवैषणीयालये मूर्च्छया वसतिं भाटकगृहं वा, तथा 'प्रत्यक्षं च ' उपलभ्यमान एव 'जलगतान्' अप्कायादीन् यः पिबति, तत्त्वतो विनाऽऽलम्बनेन, कथं न्वसौ भिक्षुः, नैव भावभिक्षुरिति गाथार्थः । उक्त उपनयः साम्प्रतं निगमनमाह
Jain Education International
नि. [३५९ ] तम्हा जे अज्झणे भिक्खुगुणा तेहिं होइ सो भिक्खू । तेहि अ सउत्तरगुणेहि होइ सो भाविअतरो उ ||
वृ. यस्मादेतदेवं यदनन्तरमक्तं तस्माद् येऽध्ययने प्रस्तुत एव 'भिक्षुगुणा' मूलगुणरूपा उक्तास्तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुः, तैश्च 'सोत्तरगुणैः ' पिण्डविशुद्ध्याद्युत्तरगुणसमन्वितैर्भवत्यसौ 'भाविततर: ' चारित्रधर्मे तु प्रसन्नतर इति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसरइत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
मू. (४८५ ) निक्खम्ममाणाइ अ बुद्धवयणे, निच्चं चित्तसमाहिओ हविज्जा । इत्थीण वसं न आवि गच्छे, वंतं नो पडिआयइ जे स भिक्खू ।।
वृ. ‘निष्क्रम्य' द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः ‘आज्ञया' तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह-'बुद्धवचने' अवगततत्त्वतीर्थकरगणधरवचने 'नित्यं' सर्वकालं 'चित्तसमाहित: 'चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह-'स्त्रीणां' सर्वासत्कार्यानिबन्धनभूतानां 'वशं' तदायत्ततारूपं न चापि गच्छेत्, तद्वगो हिनियमतो वान्तं प्रत्यापिबति, 'अतो' बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागाद्, अनेनैवोपायेनान्योपायासंभवात्, 'वान्तं' परित्यक्तं सद्विषयजम्बालं 'न प्रत्यापिबति' न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः सभिक्षुः- भावभिक्षुरिति सूत्रार्थः ॥
मू. (४८६) पुढविं न खणे न खणावए, सीओदगं न पिए न पिआवए । अर्गानिसत्थं जहा सुनिसिअं, तं न जले न जलावए जे स भिक्खू ॥
वृ. तथा-'पृथिवीं सचेत्तनादिरूपां न स्वनति स्वयं न स्वानयति परैः, 'एकग्रहणे तज्जातीयग्रहण' मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदकं' सचित्तं पानीयं न पिबति स्वयं न पाययति परानिति, अग्निः षड्जीवघातकः, किंवदित्याह - ' शस्त्रं' खंगादि यथा 'सुनिशितम्' उज्जवालितं तद्वत्, तं न ज्वालयति स्वयं न ज्वालयति परैः, य इत्थंभूतः स
For Private & Personal Use Only
www.jainelibrary.org