________________
२४२
दशवैकालिक - मूलसूत्र - १० /-/ ४८५
अगुणत्ता इह ऊ-को दिट्टंतो ? सुवण्णमिव ॥
वृ. ' अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः ' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'न शेष: ' तद्गुणरहित इति 'न: प्रतिज्ञा' अस्माकं पक्षः, 'को हेतु: ' ? कोऽत्र पक्षधर्म इत्याशङ्कयाह'अगुणत्वादिति हेतु:' अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः ?' किं पुनरत्र निदर्शनमित्याशङ्कयाह'सुवर्णमिव' यथा सुवर्णं स्वगुणरहितं सुवर्णं न भवति तद्वदिति गाथार्थः ॥ सुवर्णगुणानाहनि. [३५२] विसघाइ रसायण मंगलत्थ विनिए पयाहिणावत्ते ।
गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ ॥
वृ.'विषघाति' विषघातनसमर्थं 'रसायनं' वयस्तम्भनकर्तृ ' मङ्गलार्थं' मङ्गलप्रयोजनं 'विनीतं' यथेष्टकटकादिप्रकारसंपादनेन 'प्रदक्षिणावर्त्तं तप्यमानं प्रादक्षिण्येनावर्त्तते 'गुरु' सारोपतम् 'अदाह्यं' नाग्निा दह्यते 'अकुथनीयं' न कदाचिदपि कृथतीत्येते ऽष्टावनन्तरोदिताः 'सुवर्णे' सुवर्णविषया गुणा भणितास्तस्तरूपज्ञैरिति गाथार्थः । उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाहचउकारणपरिसुद्धं कसछेअणतावतालणाए अ । जं तं विसघाइरसायणाइगुणसंजुअं होइ ॥
नि. [३५३]
वृ. 'चतुष्कारणपरिशुद्ध' चतुः परीक्षायुक्तमित्यर्थः, कथमित्याह- 'कषच्छेदतापताडनय चे 'ति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्णं स्वकार्यसाधकमिति गाथार्थः ॥ यच्चैवंभूतम्
नि. [३५४]
सिणगुणावे होइ सुवण्णं न सेसयं जुत्ती । नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू ॥
वृ. 'तद्' अनन्तरोदितं 'कृत्स्रगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तं, न 'शेषं' कषाद्यशुद्धं, 'युक्ति 'रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयतियथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण - रजोहरणादिसंधारणादिना 'अगुणः ' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थः ॥ जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइवि कीरिज्जा ।
नि. [३५५]
होतं सुवणं सेसेहि गुणेहिं संतेहिं ॥
वृ. युक्तिसुवर्णं कृत्रिम सुवर्णमिह लोके 'सुवर्णवर्णं तु' जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव भवति तत् सुवर्णं परमार्थेन 'शेषैर्गुणैः' कषादिभिः 'असद्भिः ' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याह
नि. [३५६ ] जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू ।
वण्णेण अच्चसुवण्णगं व संते गुणनिर्हिमि ॥
वृ. येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात्। किमिवेत्याह- 'वर्णेन' पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णुमिव 'सति गुणनिधौ' विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति यथाऽन्युगुणयुक्तं शोभनवर्णं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International