Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 251
________________ . २४८ दशवैकालिक मूलसूत्रं च्चोत्तरतन्त्रं ' श्रुतगृहीतार्थमेव' दशवैकालिकाख्यश्रुतेन गृहीतोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह-'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः ॥ द्रव्यचूडादिव्याचिख्यासयाऽऽहनि. [३६१] दवे सच्चिताई कुक्कुडचूडामणीमऊराई । खेत्तंमि लोगनिक्कुड मंदरचूडा अ कूडाई ॥ वृ. 'द्रव्य' इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताद्या' सचित्ता अचित्ता मिश्राच, यथासंख्यं दृष्टान्तमाह- कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा । ‘क्षेत्र' इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्त्तिनः, मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानां, क्षेत्रप्राधान्यता, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः || नि. [३६२] अइरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि । भावे खओवसमिए इमा उ चूडा मुणे अव्वा ॥ वृ.' अतिरिक्ता' उचितकालात् समधिका 'अधिकमासका: ' प्रतीताः, अधिकाः संवत्सराश्च षष्ठ्यब्दाद्यपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा ' मन्तव्या' विज्ञेया क्षायोपशमिकत्वाच्छ्रतस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽहदव्वे दुहाउ कम्मे नोकम्मरई अ सद्ददव्वाई । भावरई तस्सेव उ उद एमेव अरईवि ।। नि. [३६३] वृ. द्रव्यरतिरागमनो आगमज्ञशरीरेतरातिरिक्ता द्विधा- कर्मद्रव्यरतिनकर्मद्रव्यरतिश्च तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच्च बद्धमनुदयावस्थं गृह्ये नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि, आदिशब्दात्, स्पर्शरसादिपरिग्रहः रतिजनकानि - रतिकारणानि । भावरति: 'तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थः । उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाह नि. [३६४] वक्कं तु पुव्वभणिअं धम्मे रइकारगाणि वक्काणि । मिमी तेन रइवक्केसा हवइ चूडा ॥ वृ. वाक्यं तु पूर्वभणितं - वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे ' रतिकारकाणि' रतिजनकानि तानि च वाक्यानि येन कारणेन 'अस्यां' चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तृणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः । इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । आहच नि. [३६५ ] जह नाम आउरसिह सीवणछेज्जेसु कीरमाणेसु । जंतणमपत्थकुच्छाऽऽ मदोसविरई हिअकरी उ ॥ वृ. यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य ' इह ' लोके 'सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियामाणेषु सत्सु, किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः 'आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकृ For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284