Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 250
________________ अध्ययनं-१०, उद्देशकः - नि. ३५९] २४७ दाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-नस्वगुणैर्गर्वमायाति यः स भिक्षुरिति। मू.(५०३) न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते।। मयाणि सव्वाणि विवज्जइत्ता, धम्मज्झाणरए जे स भिक्खू॥ वृ.मदप्रतिषेधार्थमाह-न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न च रूपमत्तो यथाऽहं रूपवानादेयः, न लाभमत्तो यथाऽहंलाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाह-मदान् सर्वान् कुलादिविषयानपि परिवW' परित्यज्य 'धर्मध्यानरतो' यो यथागमं तत्र सक्तः स भिक्षुरिति सूत्रार्थः ॥ मू.(५०४) पवेअए अज्जपयं महामुनी, धम्मे ठिओ ठावयई परं पि। निक्खम्म वज्जिज्ज कुसीललिंगं, न आवि हासंकुहए जे स भिक्खू । वृ.किंच-'प्रवेदयति' कथयति आर्यपदं' शुद्धधर्मपदं परोपकाराय 'महामुनिः' शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्यत आह-धर्मे स्थितः स्थापयति परमपिश्रोतारं, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति 'कुशीललिङ्गम्' आरम्भादिकुशीलचेष्टितं, तथा 'न चापि हास्यकुहको' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः ।। मू.(५०५) तं देहवासं असुइं असासयं, सया चए निच्चिहिअद्विअप्पा। छिदितु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमंगई। ते बेमि।। वृ.भिक्षुभावफलमाह-'तं देहवास'मित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरवासमए अशुचिंशुक्रशोणितोद्भवत्वादिना अशाश्वतं प्रतिक्षणपरिणत्या सदात्यजति ममत्वानुबन्धत्यागेन, क इत्याह-'नित्यहिते' मोक्षसाधने सम्यग्दर्शनादौ 'स्थितात्मा' अत्यन्तसुस्थितः, स चैवंभूतश्छित्त्वा जातिमरणस्य' संसारस्य 'बन्धन' कारणम् ‘उपैति' सामीप्येन गच्छति 'भिक्षुः' यतिः 'अपुनरागमां' पुनर्जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगति, ब्रवीमीति पूर्व-वदिति सूत्रार्थः।। उक्तोऽनुगमो, नया: पूर्ववत्, इति व्याख्यातं सभिक्षवध्ययन्।। अध्ययनं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिक सूत्रे दशमअध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्तिः एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता (प्रथमा चूलिका रतिवाक्यं - वृ.अधुनौधतञ्चूडे आरभ्येते, अनयोश्चायमभिसंबन्धः-इहानन्तराध्ययने भिक्षुगणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतन्त्रवत् कर्मणश्च बलवत्त्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवच्चूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आहनि.[३६०] दव्वे खेत्ते काले भावम्मि अचूलिआय निक्खेवो। तं पुण उत्तरतंतं सुअगहिअत्थं तु संगहणी॥ वृ. नामस्थापने क्षुण्णत्वादनादृत्याह-'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो' न्यास इति तत्पुनश्चूडाद्वयम् ‘उत्तरतंत्र' दशवैकालिकस्य आचारपञ्चचूडावत्, एत Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284