Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२५६
द्वितीया चूलिका- विषक्तचर्या
वृ. व्याख्यातं प्रथमचूडाध्ययनम्, अधुना द्वितीयामारभ्यते, अस्य चौधत: संबन्ध: प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्ध: एतदेवाह भाष्यकार:
भा. [ ६३ ]
अहिगारो पुव्वुत्तो चउव्विहो बिइ अचूलिअज्झयणे । सेसाणं दाराणं अहकमं फासणा होइ ॥
-
दशवैकालिक मूलसूत्रं
वृ.‘अधिकारः' ओधतः प्रपञ्चप्रस्तावरूपः 'पूर्वोक्तो' रतिवाक्यचूडायां प्रतिपादितः 'चतुविधो' नामचूडा स्थापनाचूडेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः 'शेषाणां द्वाराणां' सूत्रालापकगतनिक्षेपादीनां 'यथाक्रमं' यथाप्रस्तावं स्पर्शना-ईषद् व्याख्यादिरूपा भवतीति गाथार्थः । अत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
मू. (५२५)
चूलिअं तु पवक्खामि, सुअं केवलिभासिअं ।
जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ॥
वू.' चूडां तु प्रवक्ष्यामि' चूडां प्राग्व्यावणितशब्दार्थं तुशब्दविशेषितां भावचूडां प्रवक्ष्यामीतिप्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कथयामि, 'श्रुतं केवलिभाषित' मिति इयं हि चूडा 'श्रुतं' श्रुतज्ञानं वर्त्तते, कारणे कार्योपचारात्, एतच्च केवलिभाषितम्- अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृद्धवादः कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः, स तदाराधनया मृत एव, ऋषिधातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामिति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति । इदमेव विशेष्यते- 'यच्छ्रुत्वे 'ति यच्छ्रुत्वाऽऽकर्ण्य 'सुपुण्यानां' कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां ' धर्मे' अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे ‘उत्पद्यते मतिः' संजायते भावतः श्रद्धा । अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति सूत्रार्थः ॥ मू. (५२६)
Jain Education International
अनुसो अपट्टि अबहुजणंमि, पडिसो अलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥
वृ. एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूतमिदमाह'अनुस्रोत्र: प्रस्थिते' नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते 'बहुजने' तथाविधाभ्यासात् प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह- 'प्रतिस्रोतोलब्धलक्ष्येण' द्रव्यतस्तस्यामेव नद्यां कथञ्चिदेवतानियोगात्प्रतीपस्रोत:प्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात्कथंचिदवाप्तसंयमलक्ष्येण 'प्रतिस्त्रोत एव' दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव‘आत्मा' जीवो 'दातव्यः' प्रवर्त्तयितव्यो 'भवितुकामेन' संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीयकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम्, अपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च
-
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284