Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 243
________________ २४० दशवैकालिक - मूलसूत्र - १० /-/ ४८५ मित्तं मित्राद्युपभोगसाधनाय एवमुभयनिमित्तम् उभयसाधनार्थम्, एवमर्थायात्माद्यर्थम् अनर्थाय वा - विना प्रयोजनेन आर्त्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् ‘विद्याद् - विजानीयात् द्रव्यभिक्षूनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं स्त्र्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावच्चाब्रह्मचारिण एत इत्याह-नि. [३४१] इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ। सुद्धतवाभावाओ कुतित्थिआऽ बंभचारित्ति ।। वृ. 'स्त्रीपरिग्रहा 'दिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच्च' परिणामशुद्धेरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावा' दिति शुद्धस्य तपसोऽभावात् तापसादयः कृतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोभिधीयते, तदचारिण इति गाथार्थः । उक्तो द्रव्यभिक्षुः, - नि. [३४२ ] आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावंमि । तस्स निरुत्तं भेअगभे अणभेत्तव्वएण तिहा ।। वृ. भावभिक्षुर्द्विविधः - आगमतो नोआगमतश्च, तत्रागमत 'उपयुक्त' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्त:, ‘तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदकः पुनर्नो आगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेप: । साम्प्रतं निरुक्तमभिधातुकाम आह- 'तस्य निरुक्त' मिति 'तस्य' भिक्षोर्निश्चितमुक्तमन्वर्थरूपं भेदकभेदन भेत्तव्यैरेभिर्भेदेर्वक्ष्यामणैस्त्रिधा भवतीति गाथार्थः ॥ एतदेव स्पष्टयतिनि. [३४३] भेत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्वं । अट्ठविहं कम्मखुहं तेन निरुत्तं स भिक्खुत्ति ।। वृ. ‘भेत्ता' भेदकोऽन्नागमोपयुक्तः साधुः, तथा 'द्विविधं' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं' विदारणीयं चाष्टविधं कर्म च - अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच्च क्षुदादिदुःखहेतुत्वात् क्षुच्छब्दबाच्यं, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्ति स भिक्षुरति गाथार्थः ॥ किं च नि. [३४४] भितो अजह खुहं भिक्खू जयमाणओ जई होइ । संजमचरओ चरओ भवं खिवंतो भवंतो उ ॥ वृ.‘भिन्दंश्च' विदारयंश्च यथा 'क्षुधं' कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, एवं 'संयमचरकः ' सप्तदशप्रकारसंयमानुष्ठायी चरकः, एवं 'भवं' संसारं ' क्षपयन्' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ॥ प्रकारान्तरेण निरुक्तम्नि. [३४५] भिक्खमत्तवित्त तेन व भिक्खू खवेइ जं व अनं । तवसंजमे तवस्सित्ति वावि अन्नोऽवि पज्जाओ ॥ वृ. 'यद्' यस्माद् 'भिक्षामात्रवृत्ति: ' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समास:, तेन वा भिक्षुभिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षययति 'यद्' यस्माद्वा 'ऋण' कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपः तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीति कृत्वा, अन्योऽपि पर्याय इति अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थः । उक्तं निरुक्तद्वारम् अधुनैकार्थिकद्वारमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284