________________
२४०
दशवैकालिक - मूलसूत्र - १० /-/ ४८५ मित्तं मित्राद्युपभोगसाधनाय एवमुभयनिमित्तम् उभयसाधनार्थम्, एवमर्थायात्माद्यर्थम् अनर्थाय वा - विना प्रयोजनेन आर्त्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् ‘विद्याद् - विजानीयात् द्रव्यभिक्षूनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं स्त्र्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावच्चाब्रह्मचारिण एत इत्याह-नि. [३४१]
इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ। सुद्धतवाभावाओ कुतित्थिआऽ बंभचारित्ति ।।
वृ. 'स्त्रीपरिग्रहा 'दिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच्च' परिणामशुद्धेरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावा' दिति शुद्धस्य तपसोऽभावात् तापसादयः कृतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोभिधीयते, तदचारिण इति गाथार्थः । उक्तो द्रव्यभिक्षुः, - नि. [३४२ ] आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावंमि । तस्स निरुत्तं भेअगभे अणभेत्तव्वएण तिहा ।।
वृ. भावभिक्षुर्द्विविधः - आगमतो नोआगमतश्च, तत्रागमत 'उपयुक्त' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्त:, ‘तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदकः पुनर्नो आगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेप: । साम्प्रतं निरुक्तमभिधातुकाम आह- 'तस्य निरुक्त' मिति 'तस्य' भिक्षोर्निश्चितमुक्तमन्वर्थरूपं भेदकभेदन भेत्तव्यैरेभिर्भेदेर्वक्ष्यामणैस्त्रिधा भवतीति गाथार्थः ॥ एतदेव स्पष्टयतिनि. [३४३] भेत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्वं ।
अट्ठविहं कम्मखुहं तेन निरुत्तं स भिक्खुत्ति ।।
वृ. ‘भेत्ता' भेदकोऽन्नागमोपयुक्तः साधुः, तथा 'द्विविधं' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं' विदारणीयं चाष्टविधं कर्म च - अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच्च क्षुदादिदुःखहेतुत्वात् क्षुच्छब्दबाच्यं, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्ति स भिक्षुरति गाथार्थः ॥ किं च
नि. [३४४]
भितो अजह खुहं भिक्खू जयमाणओ जई होइ । संजमचरओ चरओ भवं खिवंतो भवंतो उ ॥
वृ.‘भिन्दंश्च' विदारयंश्च यथा 'क्षुधं' कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, एवं 'संयमचरकः ' सप्तदशप्रकारसंयमानुष्ठायी चरकः, एवं 'भवं' संसारं ' क्षपयन्' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ॥ प्रकारान्तरेण निरुक्तम्नि. [३४५] भिक्खमत्तवित्त तेन व भिक्खू खवेइ जं व अनं ।
तवसंजमे तवस्सित्ति वावि अन्नोऽवि पज्जाओ ॥
वृ. 'यद्' यस्माद् 'भिक्षामात्रवृत्ति: ' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समास:, तेन वा भिक्षुभिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षययति 'यद्' यस्माद्वा 'ऋण' कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपः तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीति कृत्वा, अन्योऽपि पर्याय इति अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थः । उक्तं निरुक्तद्वारम् अधुनैकार्थिकद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org