________________
अध्ययनं - ९, उद्देशक: :-४. [नि. ३३६ ]
नि. [३३६ ]
जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू । अनेवि दव्वभिक्खू जे जायणगा अवरिया अ ||
वृ. यथा 'दारुकर्मकरो' वर्धक्यादिः भेदन भेत्तव्यसंयुक्तः सन्- क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः - अपारमार्थिकाः, क इत्याह-ये ‘याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः ॥ एते च द्विविधा: - गृहस्था लिङ्गिनश्चेति, तदाह
नि. [३३७]
गिहिणोऽवि सयारंभग उज्जुप्पन्नं जनं विमग्गंता । जीवणि दीणकिविना ते विज्जा दव्वभिक्खुत्ति ॥
वृ. 'गृहिणोऽपि ' सकलत्रा अपि 'सदारंभका' नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालोचकं विमृगयन्तः - अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षयः, एते च धिग्वर्णाः, तथा ये च 'जीवनिकायै' जीवनिकानिमित्तं 'दीनकृपणा: ' कार्पटिकादयो भिक्षामटन्ति तान् 'विद्याद्' विजानीयाद्रव्यभिक्षूनिति, द्रव्यार्थं भिक्षणशीलत्वादिति गाथार्थः । उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याहनि. [३३८]
मिच्छद्दिट्ठी तसथावराण पुढवाइबिंदिआईणं ।
निच्च वहकरणरया अबंभयांरी अ संचइआ ॥
२३९
वृ. शाक्यभिक्षुप्रभृतयो हि 'मिथ्यादृष्टयः' अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च, अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरताः - सदैतदतिपाते सक्ताः, कथमित्यत्राह - अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । एते चाब्रह्मचारिणः संचयादेवेति संचयमाह
नि. [३३९] दुपयचउप्पयधणधन्नकुविअतिअतिअपरिग्गहे निरया । सच्चित्तभोइ पयमाणगा अ उद्दिट्ठभोई अ ॥
वृ. द्विपदं दास्यादि चतुष्पदं - गवादि धनं हिरण्यादि धान्यं - शाल्यादि कुप्यम् - अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे- कृतकारितानुमतपरिग्रहे निरता:- सक्ताः । न चैतदनार्षम् - "विहारान् कारयेद्रभ्यान्वासयेच्च बहुश्रुतान् " इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः, तदप्रतिषेधात् 'पचन्तश्च' स्वयंपचास्तापसादयः, उद्विष्टभोजिनश्च सर्व एव शाक्यादयः, सिद्धया तपस्विनोऽपि पिण्डविशुद्धयपरिज्ञानादिति गाथार्थः ॥
त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराहनि. [३४०]
करणतिए जो अतिए सावज्जे आयउपर भए । अट्टाणपवत्ते ते विज्जा दव्वभिक्खुत्ति ॥
तत्प्र
वृ. करणत्रिक इति 'सुपां सुपो भवन्ती 'ति 'करणत्रिकेण' मनोवाक्कायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपे 'सावद्ये' सपापे आत्महेतोः - आत्मनिमित्तं देहाद्युपचयाय, एवं परनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org