________________
२३८
दशवैकालिक-मूलसूत्रं-१०/-/४८५ वृ. निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः । तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि। तत्र निर्देशप्रसंशाया'मिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ।। एतदेव दर्शयतिनि.[३३१] जे भावा दसवेआलिअम्मि करणिज्ज वण्णिअ जिनेहिं ।
तेसिं समावणमिति(मी) जो भिक्खू भन्नइ स भिक्खू ।। वृ. ये भावाः' पदार्थाः पृथिव्यादिसंरक्षणादयो 'दशवैकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिताः' कथिता जिनैः-तीर्थकरगणधरैः, 'तेषां' भावानां 'समापने' यथाशक्त्या(क्ति) द्रव्यतो भावतश्चाचरणेन पर्यन्तनयनेन 'यो भिक्षुः' तदर्थं यो भिक्षणशीलो न तदूरादिभरणार्थं भण्यते स भिक्षुरिति, इतिशब्दस्य व्यवहित उपन्यासः । स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थः ॥ प्रशंसायामाहनि. [३३२] चरगमरुगाइआणं भिक्खुजीवीण काउणमपोहं।
अज्झयणगुणनिउत्तो होइ पसंसाइ उ सभिक्खू ॥ वृ. 'चरकमरुकादीना'मिति चरकाः-परिव्राजकविशेषाः मरुका-धिग्वर्णाः आदिशब्दाच्छाक्यादिपरिग्रहः, अमीषां 'भिक्षोपजीविनां' भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा अध्ययनगुणनियुक्तः' प्रक्रान्तशास्त्रनिष्यन्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति । प्रशंसायामवगम्यमानायां सद्भिक्षुः-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः ।।
उक्तः सकारः, इदानी भिक्षुमभिधातुकाम आहनि. [३३३] भिक्खुस्स य निक्खेवो निरुत्तएगट्ठिआणि लिंगाणि।
अगुणट्ठिओ न भिक्खू अवयवा पंच दाराई ॥ वृ.भिक्षोः 'निक्षेपो' नामादिलक्षण: कार्यः, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा एकार्थिकानि' पर्यायशब्दरूपाणि वक्तव्यानि, तथा 'लिङ्गानि' संवेगादीनि, तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वच्यम् । अत्र च 'अवयवाः पञ्च' प्रतिज्ञादयो वक्ष्यमाणा इति, द्वारण्येतानीति गाथासमासार्थः । यथाक्रमं व्यासार्थमाहनि. [३३४] नामंठवणाभिक्खू दव्वभिक्खू अभावभिक्खू अ।
दव्वम्मि आगमाई अन्नोऽवि अ पज्जवो इणमो॥ वृ. 'नामस्थापनाभिक्षु'रिति भिक्षुशब्दः प्रत्येकभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह-'द्रव्य' इति द्रव्यभिक्षुः ‘आगमादिः' आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च 'पर्यायो' भेदः 'अयं' द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ॥ नि. [३३५] भेअओ भेअणं चेव, भिदिअव्वं तहेव य।
एएसि तिण्हंपि अ, पत्तेअपरूवणं वोच्छं ।। वृ. भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः। एतेषां त्रयाणामपि' भेदकादीनां 'प्रत्येकं' पृथक्पृथक् प्ररूपणां वक्ष्य इति गाथार्थः । एतदेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org