Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 244
________________ अध्ययनं - १०, उद्देशक:- [नि. ३४६ ] नि. [३४६ ] तिने ताई दविए वई अ खंते अ दंत विरए अ । मुणितावसपत्रवगुजुभिक्खू बुद्धे जइ विऊ अ॥ वृ. तीर्णवत्तीर्णः विशुद्धसम्यग्दर्शनादिलाभाद्भवार्णमिति गम्यते, तायो ऽस्यास्तीति तायी, ताय: सुदृष्टमार्गोक्तिः, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः, द्रव्यं रागद्वेषरहितः, , व्रती च हिंसादिविरतश्च, क्षान्तश्च क्षाम्यति क्षमा करोतीति क्षान्तः, बहुलवचनात् कर्तरिनिष्ठा, एवं दाम्यतीन्द्रियादिदमं करोतीति दान्तः, विरतश्च विषयसुखनिवृत्तश्च, मुनिर्मन्यते जगतस्त्रिकालावस्थामिति मुनिः, तप:प्रधानस्तापसः, प्रज्ञापकोऽपवर्गमार्गस्य प्ररूपकः, ऋजुः - मायारहितः संयमवान्भिक्षुः पूर्ववत्, बुद्धोऽवगतत्त्वः, यतिरुत्तमाश्रमी प्रयत्नवान् वा, विद्वांश्च- पण्डितश्चेति गाथार्थः ॥ तथानि. [३४७] पव्वइए अनगारे पासंडी चरग बंभणे चेव । परिवायगे अ समणे निग्गंथे संजए मुत्ते ॥ वृ.प्रव्रजितः-पापन्निष्क्रान्तः, अनगारो- द्रव्यभावागारशून्यः, पाषण्डी- पाशाड्डीन:, चरकः पूर्ववत्, 'ब्राह्मणश्चैव' विशुद्धब्रह्मचारी चैव, परिव्राजश्च - पापवर्जकश्च, श्रमणः पूर्ववत्, निर्ग्रथः संत मुक्त इत्येतदपि पूर्ववदेवेति गाथार्थः । तथा नि. [३४८ ] साहू लूहे अ तहा तिरठ्ठी होइ चेव नायव्वो । नामाणि एवमाईण होंति तवसंजमरयाणं ॥ २४१ वृ. साधू रूक्षश्च तथे 'ति निर्वाणसाधकयोगसाधनात्साधुः स्वजनादिषु स्नेहविरहाद्र्श्चः 'तीरार्थी चैव भवति ज्ञातव्यं' इति तीरार्थी भवार्णवस्य, 'नामानि ' एकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि भवन्ति । केषामित्याह तपः संयमरतानां भावसाधूनामिति गाथार्थः ॥ प्रति-पादितमेकार्थिकद्वारम्, इदानीं लिङ्गद्वारं व्याचिख्यासुराह नि. [३४९] संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो । 27/16 Jain Education International आराधना तवो नाणदंसणचरित्तविनओ अ । वृ. 'संवेगो' मोक्षसुखाभिलाष:, 'निर्वेद: ' संसारविषयः, 'विषयविवेको' विषयपरित्यागः, 'सुशीलसंसर्गः ' शीलवद्भिः संसर्गः, तथा 'आराधना' चरमकाले निर्यापणरूपा, 'तपो' यथाशक्त्यनशनाद्यासेवनं, 'ज्ञानं' यथावस्थितपदार्थविषयमित्यादि 'दर्शनं' नैसर्गिकादि ' चारित्रं' सामायिकादि 'विनयश्च' ज्ञानादिविनय इति गाथार्थः । तथा नि. [३५०] खंती अ मद्दवऽज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी अ होंति भिक्खुस्स लिंगाई ॥ वृ.' क्षान्तिश्च' आक्रोशादिश्रवणेऽपि क्रोधात्यागश्च 'मार्दवार्जवविमुक्तते 'ति जात्यादिभावेऽपि मानत्यागान्मार्दवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं, धर्मोपकरणेष्वप्यमूर्च्छा विमुक्तता, तथाऽशनाद्यलाभेऽप्यदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा 'आवश्यकपरिशुद्धिश्च' अवश्यकरणीययोगनिरतिचारता च, भवन्ति 'भिक्षो:' भावसाधोः 'लिङ्गानि ' अनन्तरोदितानि संवेगादीनीति गाथार्थः ॥ व्याख्यातं लिङ्गद्वारम्, अवयवद्वारमाहअज्झयणगुणी भिक्खू न सेस इह नो पइन्न - को हेऊ ? । नि. [३५१] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284